________________
६१
दूषणाभासनिरूपणम् ।]. प्रमाणमीमांसा । 'स्थानात् १२ । अनुत्पत्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः। यथा अनुत्पने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क वर्तते ? । तदेवं हेत्वभावादसिद्धिरनित्यत्वस्येति.१३। साधHसमा वैधर्म्यसमा वा या जातिः पूर्वमुदाहृता सैव संशयेनोपसंहियमाणा संशयसमा जातिर्भवति । यथा किं घटसाधात् कृतकत्वादनित्यः शब्द उत तद्वैधादाकाशसाधाद्वा निरवयवत्वानित्य इति ? १४। द्वितीयपक्षोत्थापनबुद्धया प्रयुज्यमाना 5 सैव साधर्म्यसमा वैधर्म्यसमा वा जातिः प्रकरणसमा भवति। तत्रैव अनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे-नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति उद्भावनप्रकारभेदमात्रे सति नानात्वं द्रष्टव्यम् १५ । त्रैकाल्यानुपपत्त्या हेतोः अत्यवस्थानमहेतुसमा जातिः। यथा हेतुः साधनम् । तत् साध्यात्पूर्व पश्चात् सह वा भवेत् । यदि पूर्वम् ; असति साध्ये तत् कस्य साधनम् ? । अथ पश्चात्साधनम् ; पूर्व तर्हि सायम् , तस्मिंश्च पूर्वसिद्धे 10 किं साधनेन ? । अथ युगपत्साध्यसाधने तर्हि तयोः सव्येतरगोविसापायोरिव साध्यसाधनमा एक न भवेदिति १६ । अर्थापत्त्या प्रत्यवस्थानमापत्तिसमा जातिः । यद्यनित्यसाधम्यात्कृतकत्वादनित्यः शब्दः, अर्थादापद्यते नित्यसाधर्म्यानित्य इति । अस्ति चास्य नित्येनाकाशादिना साधम्यं निरवयवत्वमित्युद्भावनप्रकारभेद एवायमिति १७।। अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । यथा यदि शब्दघटयोरेको धर्मः 15 कृतकत्वमिष्यते तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति १८ । उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः। यथा यदि कृतकत्वोपपत्त्या शब्दस्यानित्यत्वम्, निरवयवत्वोपपत्त्या नित्यत्वमपि कस्मान भवति । पक्षद्वयोप- . पत्याऽनध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् १९। उपल
ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः। यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वा- 20 दिति प्रयुक्ते प्रत्यवतिष्ठते-न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनम् ; साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते । उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनाऽपि विद्युदादावनित्यत्वम् । शब्देऽपि क्वचिद्वायुवेगभज्यमानवनस्पत्यादिजन्ये तथैवेति २० । अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । यथा तत्रैव प्रयत्नानन्तरीयकत्वहेतावुपन्यस्ते सत्याह जातिवादी-न प्रयत्नकार्यः शब्दः प्रागुच्चारणादस्त्येवासावाव- 25 रणयोगात्तु नोपलभ्यते । आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येव शब्द इति चेत् न, आवरणानुपलम्भेप्यनुपलम्भसद्भावात् । आवरणानुपलब्धेश्चानुपलम्भादभावः । तदभावे चावरणोपलब्धेभोवो भवति । ततश्च मृदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रागुच्चारणादग्रहणमिति प्रयत्नकार्यत्वाभावान्नित्यः शब्द इति'२१ । साध्य
१ तथैवानि०-डे । २ जैनं प्रति दृष्टान्तः साध्यविकलस्तेन हि शब्दत्वस्य नित्यानित्यत्वस्याभ्युपेतत्वात् व्याप्तिरप्यसिद्धा। ३ उद्भावनं प्र०-ता० । ४ तस्मिन् पूर्व सिद्धे-डे० ।५- द्भावनं प्र०-डे । ६ अत्र पूर्वोक्तमेवोत्तरम्। ७-०त्येवावर०-डे । ८ चेत् आ०-डे०। ९ अत्रोत्तरम्-प्रत्ययमेदभेदित्वात् अ(2). प्रसलानन्तरीयकत्वं विवक्षितशब्दस्य सिद्धमेव द्रव्यत्व(१)प्रयत्नेन शब्दो विवक्षितो जन्यत एव न तु व्यज्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org