________________
६
.
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० २९. --६६४. तत्र साधर्म्यण प्रत्यवस्थानं साधर्म्यसमा जातिः। यथा अनित्यः शब्दः कृतकत्वात् घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्-नित्यः शन्दो निरवयवत्वादाकाशवत् । न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वादनित्यः शब्दो न पुन
राकाशसाधाभिरवयवत्वानित्य इति १ । वैधर्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः। 5 यथा अनित्यः शब्दः कृतकत्वादित्यत्रैव प्रयोगे स एव प्रतिहेतुर्वैधयेण प्रयुज्यतेनित्यः शब्दो निरवयवत्वात् ; अनित्यं हि सावंयवं दृष्टं घटादीति । न चास्ति विशेषहेतुर्घटसाधर्म्यात्कृतकत्वादनित्यः शब्दो न पुनस्तद्वैधानिरवयवत्वामित्य इति २। उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती। तत्रैव प्रयोगे दृष्टान्तधर्म कचित्
साध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्क्ते-यदि घटवत् कृतकत्वादनित्यः शब्दो 10 घटवदेव मूर्तोऽपि भवतु । न चेन्मूर्तो घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरो
त्कर्षमापादयति ३ । अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्ट एवं शब्दोप्यस्तु । नो चेन् घटवदनित्योऽपि माभूदिति शन्दे श्रावणत्वधर्ममपकर्षतीति ४ । वर्ष्यावाभ्यां प्रत्यवस्थानं वावर्ण्यसमे जाती । ख्याफ्नीयो वर्ण्यस्तद्विपरीतोऽवर्ण्यः । तावेतौ वर्ष्यावण्यौँ साध्यदृष्टान्तधौं विपर्यस्यन् वावर्ण्यसमे जाती प्रयुङ्क्ते-यथाविधः 15 शब्दधर्मः कृतकत्वादिर्न तादृग्घटधर्मो यादृग्घटधर्मो न तादृक् शब्दधर्म इति ५-६ ।
धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । यथा कृतकं किश्चिन्मृदु दृष्टं राङ्कवशय्यादि, किश्चित्कठिनं कुठारादि, एवं कृतकं किश्चिदनित्यं भविष्यति घटादि किश्चिनित्यं शब्दादीति ७ । साध्यसाम्यापादनेन प्रत्यवस्थानं साध्यसमा जातिः। यथा-यदि
यथा घटस्तथा शब्दः, प्राप्तं तर्हि यथा शब्दस्तथा घट इति । शब्दश्च साध्य इति घटोऽपि 20 साध्यो भवतु । ततश्च न साध्यः साध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलक्षण्या
त्सुतरामदृष्टान्त इति ८ । प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्तिसमे जाती। यथा यदेतत् कृतकत्वं त्वया साधनमुपन्यस्तं तत्कि प्राप्य साधयत्यप्राप्य वा । प्राप्य चेत् । द्वयोर्विद्यमानयोरेव प्राप्तिर्भवति, न सदसतोरिति । द्वयोश्च सत्त्वात् किं कस्य साध्यं साधनं
वा?९। अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्गादिति १० । अतिप्रसङ्गापादनेन प्रत्यवस्थानं 25 प्रसङ्गसमा जातिः। यथा यद्यनित्यत्वे कृतकत्वं साधनं कृतकत्व इदानीं किं साधनम् ।
तत्साधनेऽपि किं साधनमिति १११ । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः। यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवदित्युक्ते जातिवाद्याह-यथा घटः प्रयनानन्तरीयकोऽनित्यो दृष्ट एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टम् , कूपखननप्रयत्नानन्तरमुपलम्भादिति । न चेदमनैकान्तिकत्वोडावनम् , भणयन्तरेण प्रत्य
१ जैनः उत्तरं ब्रूते निरवयवत्वं पक्षासिद्धं साधनविकलश्च दृष्टान्तः, “ झानेनानैकान्तिकोऽपि । २ अत्रापि ज्ञानेनानैकान्तिकः । ३ साध्यधर्मदृष्टान्तधर्मयोधर्म्यमापादयन् ।।४ वयेन साध्यधर्मेण दृष्टान्तस्यावर्ण्यभूतस्य समताख्यापने न दृष्टान्तत्वं स्यादिति वर्ण्यसमा आतिः। ५ अवर्ण्यरूपदृष्टान्तावष्टम्मेन साधनस्याऽवर्ण्यरूपत्वमायातमित्यवर्ण्यसमा जातिः । ६ याक् च ५० मु-पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org