________________
दूषणनिरूपणम् ।] प्रमाणमीमांसा । प्रमाणस्यानुपदर्शनाद्भवतो न तु वीप्सासर्वावधारणपदानामप्रयोगात् , सत्स्वपि तेष्वसति प्रमाणे तयोरसिद्धेरिति । साध्यविकलसाधनविकलोभयविकलाः, सन्दिग्धसाध्यान्वयसन्दिग्धसाधनान्वयसन्दिग्धोभयान्वयाः, विपरीतान्वयः, अप्रदर्शितान्वयश्चेत्यष्टौ साधर्म्यदृष्टान्ताभासाः । साध्याव्यावृत्तसाधनाव्यावृत्तोभयाव्यावृत्ताः, सन्दिग्धसाध्यव्यावृत्तिसन्दिग्धसाधनव्यावृत्तिसन्दिग्धोभयव्यावृत्तयः, विपरीतव्यतिरेकः, अप्रदर्शितव्य- 5 तिरेकश्वेत्यष्टावेव वैधHदृष्टान्ताभासा भवन्ति ।। : ..$ ५९. नन्वनन्वयाव्यतिरेकावपि कैश्चिद् दृष्टान्ताभासावुक्तौ, यथा रागादिमानयं वचनात् । अत्र साधर्म्यदृष्टान्ते आत्मनि रागवचनयोः सत्यपि साहित्ये, वैधर्म्यदृष्टान्ते चोपलखण्डे सत्यामपि सह निवृत्तौ प्रतिबन्धाभावेनान्वयव्यतिरेकयोरभाव इत्यनन्वयाव्यतिरेको । तौ कस्मादिह नोक्तौ । उच्यते-ताभ्यां पूर्वे न भिद्यन्त इति साध- 10 यंवैधाभ्यां प्रत्येकमष्टावेव दृष्टान्ताभासा भवन्ति । यदाहुः
"लिङ्गस्यानन्वया अष्टावष्टावव्यतिरोकिणः ।
नान्यथानुपपन्नत्वं कथंचित् ख्यापयन्त्यमी ॥” इति ॥२७॥ ६०. अवसितं परार्थानुमानमिदानीं तन्नान्तरीयकं दूषणं लक्षयतिसाधनदोषोद्भावनं दूषणम् ॥२८॥
15 ६ ६१. 'साधनस्य' परार्थानुमानस्य ये असिद्धविरुद्धादयो 'दोषाः' पूर्वमुक्तास्तेपामुद्भाव्यते प्रकाश्यतेऽनेनेति 'उद्भावनम्' साधनदोषोद्भावकं वचनं 'दूषणम्' । उत्तरत्राभूतग्रहणादिह भूतदोषोद्भावना दूषणेति सिद्धम् ॥२८॥ - ६२. दृषणलक्षणे दुषणाभासलक्षणं सुज्ञानमेव भेदप्रतिपादनाथं तु तल्लक्षणमाह- अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ॥२९॥ 20
६३. अविद्यमानानां साधनदोषाणां प्रतिपादनान्यदूषणान्यपि दूषणवदाभासमानानि 'दूषणाभासाः। तानि च 'जात्युत्तराणि । जातिशब्दः सादृश्यवचनः। उत्तरसदृशानि जात्युत्तराणि उत्तरस्थानप्रयुक्तत्वात् । उत्तरसदृशानि जात्युत्तराणि । जात्या सादृश्येनोत्तराणि जात्युत्तराणि । तानि च सम्यग्घेतौ हेत्वाभासे वा वादिना प्रयुक्ते झटिति तद्दोषतत्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायाणि प्रत्यवस्थानान्यनन्तत्वात्परिसङ्ख्यातुं न 25 शक्यन्ते, तथाप्यक्षपाददर्शितदिशा साधादिप्रत्यवस्थानभेदेन साधर्म्यवैधयोंस्कर्षापकर्षवर्ध्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्यविशेषोपपत्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमरूपतया चतुर्विंशतिरुपदर्श्यन्ते।
१ व्याप्तिग्राहकस्य उहाख्यस्य। २ यत् यत् कृतकम्। ३ यत्कृतकं तत्सर्वम्। ४ यत् कृतकं तदनित्यमेव । ५ अन्वयव्यतिरेकयोः । ६-०कलसन्दि०-डे०। ७ तादात्म्यतदुत्पत्तिलक्षणसम्बन्धाभावे[न] भूतादोष.-डे । ९ संज्ञाशब्दोऽयम्। १०-०कार्यसरूप०-ता। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org