SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 15 ५८ ५४. तथा वचनाद्रागे रागान्मरणधर्मकिञ्चिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वयव्यतिरेका रथ्यापुरुषादयः ॥ २५ ॥ ५५. सन्दिग्धसाध्यसाधनोभयान्वयाः सन्दिग्धसाध्यसाधनोभयव्यतिरेकाश्च त्रय6 त्रयो दृष्टान्ताभासा भवन्ति । के इत्याह- ' रथ्यापुरुषादयः' । कस्मिन् साध्ये १ । 'रागे ' 'मरणधर्म किञ्चिज्ज्ञेत्वयोः' च । कस्मादित्याह - 'वचनात् ' ' रागात् ' च । तत्र सन्दिग्धसाध्यधर्मान्वयो यथा विवक्षितः पुरुषविशेषो रागी वचनाद् रथ्यापुरुषवत् । सन्दिग्धसाधनधर्मान्वयो यथा मरणधर्माऽयं रागात् रथ्यापुरुषवत् । सन्दिग्धोभयधर्मान्वयो यथा किञ्चिज्ज्ञोऽयं रागात् रथ्यापुरुषवदिति । एषु परचेतोवृत्तीनां दुरधिगंमत्वेन साध10 दृष्टान्ते रथ्यापुरुषे रागकिञ्चिज्ज्ञत्वयोः सत्त्वं सन्दिग्धम् । तथा सन्दिग्धसाध्य-व्यतिरेको यथा रागी वचनात् रथ्यापुरुषवत् । सन्दिग्धसाधनव्यतिरेको यथा मरणधर्माऽयं रागात् रथ्यापुरुषवत् । सन्दिग्धोभयव्यतिरेको यथा किंञ्चिज्ज्ञोऽयं रागात् रथ्यापुरुषवत् । एषु पूर्ववत् परचेतोवृतेर्दुरन्वयत्वाद्वैधर्म्यदृष्टान्ते रथ्यापुरुषे रागकिञ्चिज्ज्ञत्वयोरसवं सन्दिग्धमिति ॥ २५ ॥ ५६. तथा 25 आचार्यश्री हेमचन्द्रविरचिता [अ०२, आ० १ सू० २५-२९. विपरीतान्वयव्यतिरेकौ ॥ २६ ॥ $ ५७, 'विपरीतान्वयः' 'विपरीतव्यतिरेकः' च दृष्टान्ताभासौ भवतः । तत्र विपरीतान्वयो यथा यत् कृतकं तदनित्यमिति वक्तव्ये यदनित्यं तत् कृतकं यथा घट इत्याह । विपरीतव्यतिरेको यथा अनित्यत्वाभावे न भवत्येव कृतकत्वमिति वक्तव्ये 20 कृतकत्वाभावे न भवत्येवानित्यत्वं यथाकाश इत्याह । साधनधर्मानुवादेन साध्यधर्मस्य विधानमित्यन्वयः । साध्यधर्मव्यावृत्यनुवादेन साधनधर्मव्यावृत्तिविधानमिति व्यतिरेकः । तयोरन्यथाभावे विपरीतत्वम् । यदाह " साध्यानुवादाल्लिङ्गस्य विपरीतान्वयो विधिः । हेत्वभावे स्वसत्साध्यं व्यतिरेकविपर्यये ॥” इति ॥ २६ ॥ अप्रदर्शितान्वयव्यतिरेकौ ॥ २७ ॥ ६५८, 'अप्रदर्शितान्वयः' 'अप्रदर्शितव्यतिरेकः' च दृष्टान्ताभासौ । एतौ च १ - ० धर्मत्वकि० - डे ० । २ साध्ययोः । ३ यथासंख्येन । ४ यो यो रागी न भवति स स षक्तापि न भवति । रथ्यानरे केनाऽपि प्रकारेण मूर्तत्वादिना वचनाभावे निश्चिते रागित्वं सन्दिह्यते । ५ मरणापवादिनं साख्यं प्रति जैनो बक्ति । ६ प्रयोगेषु । ७-० भावो वि० - डे० । ८-० न्वये वि०ता० । ६ कथयति । १०-० ० पर्यय इ० - डे० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy