________________
दृष्टान्ताभासनिरूपणम् । ] प्रमाणमीमांसा । पक्षसपक्षव्यापको विपक्षकदेशवृत्तिर्यथा गौरयं विषाणित्वात् । पक्षविपक्षव्यापकः सपक्षकदेशवृत्तियथा नायं गौः विषाणित्वात् । पक्षव्यापकः सपक्षविपक्षकदेशवृत्तिर्यथा अनित्यः शब्दः प्रत्यक्षत्वात् । पक्षैकदेशवृत्तिः सपक्षविपक्षव्यापको यथा न द्रव्याण्याकाशकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् । पक्षविपक्षकदेशवृत्तिः सपक्षव्यापी यथा न व्याणि दिकालमनांसि अमूर्तत्वात् । पक्षसपक्षकदेशवृत्तिर्विपक्षव्यापी यथा 5 द्रव्याणि दिकालमनांसि अमूर्तत्वात् । पक्षत्रयैकदेशवृत्तिर्यथा अनित्या पृथ्वी प्रत्यक्षत्वा. दिति ॥२१॥ ४९. उदाहरणदोषानाह
साधर्म्यवैधाभ्यामष्टावष्टौ दृष्टान्ताभासाः ॥२२॥ ६५०. परार्थानुमानप्रस्तावादुदाहरणदोषा एवैते दृष्टान्तप्रभवत्वात् तु दृष्टान्तदोषा 10 इत्युच्यन्ते । दृष्टान्तस्य च साधर्म्यवैधर्म्यभेदेन द्विविधत्वात् प्रत्येकम् 'अष्टावष्टौ' दृष्टान्तवदाभासमानाः 'दृष्टान्ताभासाः' भवन्ति ॥ २२ ॥ ६५१. तानेवोदाहरति विभजति च
अमूर्तत्वेन नित्ये शब्दे साध्ये कर्म-परमाणु-घटाः
__साध्यसाधनोभयविकलाः ॥२३॥ ६५२. नित्यः शब्दः अमूर्तत्वादित्यस्मिन् प्रयोगे कर्मादयों यथासङ्ख्यं साध्यादिविकलाः । तत्र कर्मवदिति साध्यविकलः, अनित्यत्वात् कर्मणः । परमाणुवदिति साधनविकलः, मूर्तत्वात् परमाणूनाम् । घटवदिति साध्यसाधनोभयविकलः, अनित्यत्वान्मूर्तत्वाच घटस्येति । इति यः साधर्म्यदृष्टान्ताभासाः ॥२३॥
वैधयेणं परमाणुकर्माकाशाः साध्याद्यव्यतिरेकिणः ॥ २४ ॥ 20
५३. नित्यः शब्दः अमूर्त्तत्वादित्यस्मिन्नेव प्रयोगे 'परमाणुकर्माकाशाः' साध्यसाधनोभयाव्यतिरेकिणो दृष्टान्ताभासा भवन्ति । यनित्यं न भवति तदमूर्तमपि न भवति यथा परमाणुरिति साध्याव्यतिरेकी, नित्यत्वात् परमाणूनाम् । यथा कर्मति साधनाव्यावृत्तः, अमूर्तत्वात् कर्मणः । यथाकाशमित्युभयाव्यावृत्तः, नित्यत्वादमूर्तत्वाचाकाशस्येति त्रय एव वैधर्म्यदृष्टान्ताभासाः ॥ २४ ॥
15
25
१अश्वादौ विषाणित्वं नास्ति महिषादौ त्वस्ति इति विपक्षैकदेशवृत्तित्वम् । २ शृङ्गवत्त्वात् । ३ अजं दृष्ट्वा वक्ति । महिषादावस्ति अश्वादौ तु नास्ति । ४ घणुकादि न प्रत्यक्षं घटादिकं तु प्रत्यक्षम् । ५ नित्यं सामान्य प्रत्यक्षमाकाशं तु न । .६ आत्माकाशौ सुखशब्दादिक्षणिकविशेषगुणयुक्तौ, [ विपक्षाः ] पृथिव्यादयः । भुवो गन्धः अपां स्नेहोऽक्षणिकविशेषगुणौ। ७ आकाशोऽमूर्तः पृथिवी मूर्ता । = परमाणुरूपा पृथिवी न प्रत्यक्षा कार्यरूपा तु प्रत्यक्षेति पक्षक[ देशः], अप्लेजोधणुकेषु सपक्षेषु प्रत्यक्षत्वाभावः, नित्येषु सामान्यादिषु प्रत्यक्षत्वम् , खे तु न । ९ त्रयोऽपि सा०-मु-पा०। ......
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org