________________
५६
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० १-२४. ... ६४५. 'विपरीत' यथोक्ताद्विपर्यस्तो 'नियमः' अविनाभावो यस्य सतथा, तस्यैयोपदर्शनम् 'अन्यथैवोपपद्यमानः' इति । यथा नित्यः शब्दः कार्यत्वात्, परीश्चक्षुरादयः सङ्घातत्वाच्छयनाशनाद्यङ्गवदित्यत्रासंहतपारायें साध्ये चक्षुरादीनां संहतत्वं विरुद्धम् ।
बुद्धिमत्पूर्वकं क्षित्यादि कार्यत्वादित्यत्राशरीरसर्वज्ञकर्तृपूर्वकत्वे साध्ये कार्यत्वं विरुद्ध5 साधनाद्विरुद्धम् ।
४६. अनेन येऽन्यैरन्ये विरुद्धा उदाहृतास्तेऽपि सङ्ग्रहीताः। यथा सति सपक्षे चत्वारो भेदाः । पक्षविपक्षव्यापको यथा नित्यः शब्दः कार्यत्वात् । पक्षव्यापको विपक्षैकदेशवृत्तिर्यथा नित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् । पक्ष
कदेशवृत्तिर्विपक्षव्यापको यथा अनित्या पृथ्वी कृतकत्वात् । पक्षविपक्षैकदेशवृत्तिर्यथा 10 नित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । असति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्ष
व्यापको यथा आकाशविशेषगुणः शब्दः प्रमेयत्वात् । पक्षव्यापको विपक्षकदेशवृत्तिर्यथा आकाशविशेषगुणः शब्दो बौद्येन्द्रियग्राह्यत्वात्। पक्षैकदेशवृत्तिर्विपक्षव्यापको यथा आकाशविशेषगुणः शब्दोऽपैदात्मकत्वात् । पक्षविक्षैकदेशवृत्तिर्यथा आकाशविशेषगुणः
शब्दः प्रयत्नानन्तरीयकत्वात् । एषु च चतुषु विरुद्धता, पक्षैकदेशवृत्तिषु चतुर्यु पुनर• 15 सिद्धता विरुद्धुता चेत्युभयसमावेशैं इति ॥ २० ॥
४७. अनैकान्तिकस्य लक्षणमाहनियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपपैयमानोऽनैकान्तिकः ॥२१॥
४८. 'नियमः' अविनाभावस्तस्य 'असिद्धौ' 'अनैकान्तिकः' यथा अनित्यः शब्दः प्रमेयत्वात्, प्रमेयत्वं नित्येऽप्याकाशादावस्तीति । सन्देहे यथा असर्वज्ञः कश्चिद् रागादिमान् 20 वा वक्तृत्वात् । स्वभावविप्रकृष्टाभ्यां हि सर्वज्ञत्ववीतरागत्वाभ्यां न वक्तृत्वस्य विरोधः सिद्धः, न च रागादिकार्य वचनमिति सन्दिग्धोऽन्वयः । ये चान्येऽन्यैरनैकान्तिकमेदा उदाहृतास्त उक्तलक्षण एवान्तर्भवन्ति । पक्षत्रयव्यापको यथा अनित्यः शब्दः प्रमेयत्वात्
१ साध्याविनाभावलक्षणात् । २ साध्यविरुद्धनाविनाभावात् । ३ आत्मार्थाः। ४-०नासना० -डे । ५सङ्घातत्वम् । ६ संहतपरार्थस्यैव साधकत्वादस्य। ७ कार्यत्वं हि पक्षे शब्दे विपक्षे चानित्ये घटादौ दृष्टम् । -- अनित्येषु घटादिषु हेतुरस्ति द्वयणुकादिषु सुखदुःखादिषु नास्ति इति । परमाणुरूपायां पृथिव्यां कृतकत्वं नास्ति कार्यरूपायां अस्ति इति पक्षकदेशवृत्तिता। १० देशशब्दो( दे )ऽप्रयत्नानन्तरी: यकविद्युति प्रयत्नानन्तरीयकत्वं नास्ति इति पक्षैकदेशः । ११ शब्दमन्तरेणान्यस्य विशेषगुणस्याऽसम्भवात् सपक्षाभावः । १२ संयोगादयः सामान्यगुणाः । आकाशसंयोगादिषु बाधेन्द्रियग्राह्यत्वमस्ति न महत्त्वादिषु । १३ मेघादिध्वनीनामपदात्मकत्वमिति पक्षकदेशवृत्तिता, संयोगादिषु अपदात्मकतैव । १४ विपक्षे संयोगादौ प्रयत्नानन्तरीयकत्वमस्ति महत्त्वे तु नास्ति । १५ पक्षकदेशे विद्यमानत्वात् । १६ -.ता वेत्यु० -ता.। १७-०मादेश -ता.। १८ न केवलं साध्ये सति साध्यं विनाऽषित्पापरर्थः(विनापि इत्यपेरर्थः) १६ साध्येन सह । २० प्रमाणपरिच्छेद्यत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org