________________
हेत्वाभासस्य निरूपणम् । ] प्रमाणमीमांसा । लमग्निसिद्धावुपदिश्यमाना, यथा चात्मनः सिद्धावपि सर्वगतत्वे साध्ये सर्वत्रोपलभ्यमानगुणत्वम् , प्रमाणाभावादिति ॥ १७॥ ... ६४०. असिद्धप्रभेदानाह
वादिप्रतिवाद्युभयभेदाच्चैतद्भेदः ॥१८॥ ६४१. 'वादी' पूर्वपक्षस्थितः 'प्रतिवादी' उत्तरपक्षस्थितः उभयं द्वावेव वादिप्रतिवा- 5 दिनौ । तदादसिद्धस्य 'भेदः । तत्र वाद्यसिद्धो यथा परिणामी शब्द उत्पत्तिमत्त्वात् । अयं साङ्खथस्य स्वयं वादिनोऽसिद्धः, तन्मते उत्पत्तिमत्त्वस्यानभ्युपेतत्वात् , नासदुत्पद्यते नापि सद्विनश्यत्युत्पादविनाशयोराविर्भावतिरोभावरूपत्वादिति तत्सिद्धान्तात् । चेतनास्तरवः सर्वत्वगपहरणे मरणात् । अत्र मरणं विज्ञानेन्द्रियायुनिरोधलक्षणं तरुषु बौद्धस्य प्रतिवादिनोऽसिद्धम् । उभयासिद्धस्तु चाक्षुषत्वमुक्तमेव । एवं सन्दिग्धासिद्धो- 10 ऽपि वादिप्रतिवाद्युभयभेदात् त्रिविधो बोद्धव्यः ॥ १८ ॥ ___४२. नन्वन्येऽपि विशेष्यासिद्धादयो हेत्वाभासाः कैश्चिदिष्यन्ते ते कस्माभोक्ता
इत्याह
विशेष्यासिद्धादीनामेष्वेवान्तर्भावः ॥ १९ ॥ ४३. 'एज्वेव' वादिप्रतिवाद्युभयासिद्धेष्वेव । तत्र विशेष्यासिद्धादय उदाड्रियन्ते । 15 विशेष्यासिद्धो यथा अनित्यः शब्दः सामान्यवत्त्वे सति चाक्षुषत्वात् । विशेषणासिद्धो यथा अनित्यः शब्दश्चाक्षुषत्वे सति सामान्यविशेषवत्त्वात् । भागीसिद्धो यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । आश्रयासिद्धो यथा अस्ति प्रधानं विश्वपरिणामित्वात् । आश्रयैकदेशासिद्धो यथा नित्याः प्रधानपुरुषेश्वराः अकृतकत्वात् । व्यर्थविशेष्यासिद्धो यथा अनित्यः शब्दः कृतकत्वे सति सामान्यवत्त्वात् । व्यथेविशेषणासिद्धो यथा अनित्यः 20 शब्दः सामान्यवत्त्वे सति कृतकत्वात्। सन्दिग्धविशेष्यासिद्धो यथा अद्यापि रागादियुक्तः कपिलः पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्त्वज्ञानत्वात् । सन्दिग्धविशेषणासिद्धो यथा अद्यापि रागादियुक्तः कपिलः सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वादित्यादि । एतेऽसिद्धभेदा यदान्यतरवाद्यसिद्धत्वेन विवक्ष्यन्ते तदा वाद्यसिद्धाः प्रतिवाद्यसिद्धा वा भवन्ति। यदो. भयवाद्यसिद्धत्वेन विवक्ष्यन्ते तदोभयासिद्धा भवन्ति ॥ १९ ॥
४४. विरुद्धस्य लक्षणमाह- विपरीतनियमोऽन्यथैवोपपद्यमानो विरुद्धः ॥२०॥
-25
१ यथा वात्म-डे। २ आत्मा सर्वगतः सर्वत्रोपलभ्यमानगुणत्वात् । ३ -गुणत्वं सन्दिग्धम् । ४-०न्ताच्च । चेत०-डे०। ५ न केवलं स्वरूपासिद्धो। ६ “आहिताग्न्यादिषु" हैमशः ३.१.१५३] ७ आत्मा व्यवच्छिन्नः । - भागे एकदेशे असिद्धः प्रयत्नानन्तरीयकत्वस्य गर्जिते अभावात् । सामान्य व्यवच्छिन्नम्। १० नैयायिकस्य । ११ ननु सामान्यवत्त्वे सतीति विशेषणं प्रध्वंसाभावव्यवच्छेदार्थ भविष्यतीति, नैवम्, बौद्धमीमांसको वादिप्रतिवादिनौ स्तस्तयोश्च मतेऽभाव एव नास्तीति । १२ दृषदादिव्यवच्छेदाय पुरुषत्वे सतीत्युक्तम् । १३ साध्यं विनैवोपपद्यमानो विपरीतनियमत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org