________________
आचार्यश्री हेमचन्द्रविरचिता
[अ० २, आ० १ सू० १६ - २०. सुज्ञानैव । केवलं हेत्वाभासानां सङ्ख्यानियमः प्रतिव्यक्तिनियतं लक्षणं च नेपत्र्करप्रतिपत्तीति तल्लक्षणार्थमाह
असिद्ध विरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥ १६ ॥
६३५. अहेतवो हेतुवदाभासमानाः 'हेत्वाभासाः' असिद्धादयः । यद्यपि साधनदोषा 5 एवैते अदुष्टे साधने तदभावात् तथापि साधनाभिधायके हेतावुपचारात् पूर्वाचार्यैरभिहितास्ततस्तत्प्रसिद्धिबाधामनाश्रयद्भिरस्माभिरपि हेतुदोषत्वेनैवोच्यन्त इति ।
15
५४
$३६. ‘त्रयः' इति सङ्ख्यान्तरव्यवच्छेदार्थम् । तेन कालातीत-प्रकरणसमयोर्व्यवच्छेदः । तत्र कालातीतस्य पक्षदोषेष्वन्तर्भावः । “प्रत्यक्षागमबार्धित कर्मनिर्देशानन्तरप्रयुक्तः कालात्ययापदिष्टः" इति हि तस्य लक्षणमिति, यथा अनुष्णस्तेजोऽवयवी 10 कृतकत्वाद् घटवदिति । प्रकरणसमस्तु न सम्भवत्येव नास्ति सम्भवो यथोक्तलक्षणेऽनुमाने प्रयुक्तेऽदूषिते वॉऽनुमानान्तरस्य । यत्तूदाहरणम् - अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात् इत्येकेनोक्ते द्वितीय आह - नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वादिति । तदतीवासाम्प्रतम् । को हि चतुरङ्गसभायां वादी प्रतिवादी वैवंविधमसम्बद्धमनुन्मत्तोऽभिदधीतेति ? ।। १६ ।
25
६३७. तत्रासिद्धस्य लक्षणमाह
नासन्ननिश्चितत्व वाऽन्यथानुपपन्न इति सत्त्वस्यासिद्धौ सन्देहे वाऽसिद्धः ॥ १७ ॥
९३८. 'असन' अविद्यमानो 'नान्यथानुपपन्नः' इति सत्त्वस्यासिद्धौ 'असिद्धः ' हेत्वाभासः स्वरूपासिद्ध इत्यर्थः । यथा अनित्यः शब्दश्चाक्षुषत्वादिति । अपक्षधर्मत्वा20 दयमसिद्ध इति न मन्तव्यमित्याह - ' नान्यथानुपपन्नः' इति । अन्यथानुपपत्तिरूपहेतुक्षणविरहादयमसिद्धो नापक्षधर्मत्वात् । नहि पक्षधर्मत्वं हेतोर्लक्षणं तदभावेऽप्यन्यथानुपपत्तिबलाद्धेतुत्वोपपत्तेरित्युक्तप्रायम् । भट्टोऽप्याह
"पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणतानुमी | सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते ||" इति ।
$ ३९. तथा 'अनिश्चितसच्चः' सन्दिग्धसत्त्वः 'नान्यथानुपपन्नः' इति सच्त्वस्य सन्देहेप्यसिद्धो हेत्वाभासः सन्दिग्धासिद्ध इत्यर्थः । यथा बाष्पादिभावेन सन्दिह्यमाना धूम
५
१ ईषत्करा सुकरा प्रतीतिर्यस्य । २ पूर्वाचार्य० । ३ कालमतीतोऽतिक्रान्तः । ४- ० धितधर्मिनि० - डे० । - ० षिते चानु० - ता० । ६०दी चैवं ० - डे० । ७ ० स्यासिद्धावपि सिद्धो हे० - ता० 1८ पक्षधर्मतां विनाप्यन्यथानुपपन्नत्वेनैव हेतुर्भवति । यथा पर्वतस्योपरि दृष्टो मेघो नदीपूरान्यथानुपपत्तेरित्यादावित्याशङ्क्याह । ६ अयं पुत्रो ब्राह्मणः पित्रोर्ब्राह्मणत्वादिति पुत्रे ब्राह्मणताया अनुमानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org