SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ परार्थानुमाननिरूपणम् | j प्रमाणमीमांसा । २६. साधनत्वाभिव्यञ्जिका विभक्तिः पञ्चमी तृतीया वा तदन्तम्, 'साधनस्य' उक्तलक्षणस्य 'वचनम्' हेतुः । धूम इत्यादिरूपस्य हेतुत्वनिराकरणाय प्रथमं पदम् । अव्याप्तवचनैहेतुत्वनिराकरणाय द्वितीयमिति । स द्विविधस्तथोपपत्त्यन्यथानुपपत्तिभ्याम्, तद्यथा धूमस्य तथैवोपपत्तेर्धूमस्यान्यथानुपपत्तेर्वेति ॥ १२ ॥ २७. उदाहरणं लक्षयति ९२९ उपनयलक्षणमाह दृष्टान्तवचनमुदाहरणम् ॥१३॥ ६२८. 'दृष्टान्तः' उक्तलक्षणस्तत्प्रतिपादकं 'वचनम् ' 'उदाहरणम्' तदपि द्विविधं दृष्टान्तभेदात् । साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तस्तस्य वचनं साधम्र्योदाहरणम्, यथा यो धूमवान् सोऽग्निमान् यथा महानसप्रदेशः । साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी वैधर्म्यदृष्टान्तस्तस्य वचनं वैधम्र्योदाहरणम् यथा 10 योऽग्निनिवृत्तिमान् स धूमनिवृत्तिमान् यथा जलाशयप्रदेश इति ||१३|| ५३ धर्मिणि साधनस्योपसंहार उपनयः ॥ १४ ॥ ३०. दृष्टान्तधर्मिणि विसृतस्य साधनधर्मस्य साध्यधर्मिणि यः 'उपसंहारः सः 'उपनयः' उपसंड्रियतेऽनेनोपनीयतेऽनेनेति वचनरूपः, यथा धूमवांश्चायमिति ॥ १४ ॥ 15 ३१. निगमनं लक्षयति साध्यस्य निगमनम् ॥१५॥ ९३२. साध्यधर्मस्य धर्मिण्युपसंहारो निगम्यते पूर्वेषामवयवानामर्थोऽनेनेति 'निगमनम्', यथा तस्मादग्निमानिति । $ ३३. एते नान्तरीयकैत्वप्रतिपादका वाक्यैकदेशरूपाः पञ्चावयवाः । एतेषामेव 20 शुद्धयः पञ्च । यतो न शङ्कितसमारोपितदोषाः पञ्चाप्यवयवाः स्वां स्वामनादीनवामर्थविषयां धियमाधातुमलैमिति प्रतिज्ञादीनां तं तं दोषमाशङ्कय तत्परिहाररूपाः पञ्चैव शुद्धयः प्रयोक्तव्या इति दशावयवमिदमनुमानवाक्यं बोध्यानुरोधात् प्रयोक्तव्यमिति ॥ १५ ॥ - 5 $३४. इह शास्त्रे येषां लक्षणमुक्तं ते तल्लक्षणाभावे तदाभासाः सुप्रसिद्धा एव । यथा प्रमाणसामान्यलक्षणाभावे संशयविपर्ययानध्यवसायाः प्रमाणाभासाः, संशयादिल5- 25 क्षणाभावे संशयाद्याभासाः, प्रत्यक्षलक्षणाभावे प्रत्यक्षाभासम्, परोक्षान्तर्गतानां स्मृत्यादीनां स्वस्वलक्षणाभावे तत्तदाभासतेत्यादि । एवं हेतूनामपि स्वलक्षणाभावे हेत्वाभासता १ तदन्तसा०-डे० । २ अव्याप्तस्य हेतोर्वचनं तस्य हेतुत्वम् । ३०चने हे० - डे० । ४ विस्तृतस्य । ५ विप्रसृतस्य - डे० । ६ प्रस्तुते धर्मिणि ढौक्यते साधनधर्मः । ७ उपसंहारव्य (व्यु ) त्पत्तिरुपनयव्युत्पत्तिः । ८ निश्चीयते । प्रयोजनम् । १० सा (ना) न्तरीयकोऽविनाभावी साधनलक्षणोऽर्थः । ११ - ०कत्वं प्रति०- डे० । १२ शङ्किताः सन्दिग्धाः समारोपिताश्च दोषा एषाम् । १३ समर्थाः । १४ तत्तत्प०डे० । १५ क्तं तल० - डे० । १६ -० भासः परो० मु० । 10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy