________________
आचार्यश्रीहेमचन्द्रविरचिता [अ०२, आं० १, सू०९-१५. संहारवचनवत् । यथा हि साध्यव्याप्तसाधनदर्शनेन तैदाधारावगतावपि नियतधर्मिसन्धन्धिताप्रदर्शनार्थम्-कृतकश्च शब्द इति पक्षधर्मोपसंहारवचनं तथा साध्यस्य विशिष्टधर्मिसम्बन्धितावबोधनाय प्रतिज्ञावचनमप्युपपद्यत एवेति ॥ ८॥
१९. ननु प्रयोग प्रति विप्रतिपद्यन्ते वादिनः, तथाहि-प्रतिज्ञाहेतूदाहरणानीति 5 व्यवयवमनुमानमिति साङ्ख्याः । सहोपनयेन चतुरवयवमिति मीमांसकाः । सह- निगमनेन पञ्चावयवमिति नैयायिकाः। तदेवं विप्रतिपत्तौ कीदृशोऽनुमानप्रयोग इत्याह. एतावान् प्रेक्षप्रयोगः ॥९॥
२०. 'एतावान्' एव यदुत तथोपपत्त्यान्यथानुपपत्त्या वा युक्तं साधनं प्रतिज्ञा च । 10 'प्रेक्षाय' प्रेक्षावते प्रतिपाद्याय तदवबोधनार्थः 'प्रयोगः' न त्वधिको यथाहुः साङ्ख्यादयः,
नापि हीनो यथाहुः सौगताः-"विदुषां वाच्यो हेतुरेव हि केवलः" [प्रमाणवा० १. २८ ] इति ॥९॥ . .
६२१. ननु परार्थप्रवृत्तैः कारुणिकैर्यथाकथञ्चित् परे प्रतिबोधयितव्या नासधवस्थोपन्यासैरमीषा प्रतिभाभङ्गः करणीयः, तत्किमुच्यते एतावान् प्रेक्षप्रयोगः १, इत्या15 शङ्कय द्वितीयमपि प्रयोगक्रममुपदर्शयति. बोध्यानुरोधात्प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चापि ॥१०॥
२२. 'बोध्यः' शिष्यस्तस्य 'अनुरोधः तदवबोधनप्रतिज्ञापारतन्त्र्यं तस्मात, प्रतिज्ञादीनि पश्चापि प्रयोक्तव्यानि । एतानि चावयवसज्ञया प्रोच्यन्ते । यदक्षपादः-"प्रतिज्ञा
हेतूदाहरणोपनयनिगमनान्यवयवाः" [न्यायसू० १. १. ३२] इति । 'अपि' शब्दात् प्रति20 ज्ञादीनां शुद्धयश्च पञ्च बोध्यानुरोधात् प्रयोक्तव्याः । यच्छीभद्रबाहुस्वामिपूज्यपादाः"कत्थह पश्चावयवं दसहा वा सव्वहा ण पडिकुटुंति ॥"
[ दश• नि० ५० ] ६२३. तत्र प्रतिज्ञाया लक्षणमाह
साध्यनिर्देशः प्रतिज्ञा ॥११॥ 25. ६२४. साध्यं सिषाधयिषितधर्मविशिष्टोधर्मी, निर्दिश्यते अनेनेति निर्देशो वचनम्,
साध्यस्य निर्देशः 'साध्यनिर्देशः' 'प्रतिज्ञा' प्रतिज्ञायतेऽनयेति कृत्वा, यथा अयं प्रदेशोऽनिमानिति ॥११॥
६२५. हेतुं लक्षयति- . .
साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं हेतुः ॥ १२ ॥ १ तथाहि-डे । २ सामान्यतः साधनधर्माधारावव(ग)तिः । ३ -०ज्ञानवच-डे० । ४ यदाहुः-डे । ५ "तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः। ख्याप्येते” । ६.परे बोध० -डे०। ७ परेषाम् । ८ प्रतिभङ्गः-डे । प्रतीतिभङ्गः -मु०। -०वान् प्रयो०-ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org