SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ परार्थानुमाननिरूपणम् । ] प्रमाणमीमांसा । ५१ $१५. अयमर्थः-परप्रत्यायनाय वचनमुच्चारयता प्रेक्षावता तदेव परे बोधयितव्या यदुभुत्सन्ते । तथासत्यनेन बुभुत्सिताभिधायिना परे बोधिता भवन्ति । न खल्वश्वान् पृष्टो गवयान् ब्रुवाणः प्रष्टुवधेयवचनो भवति । अनवधेयवचनश्च कथं प्रतिपादको नाम ? | यथा च शैक्षो भिक्षुणाचचक्षे- भोः शैक्ष, पिण्डेपांतमाहरेति । स एवमाच मीत्यनभिधाय यदा तदर्थ प्रयतते तदाऽस्मै क्रुध्यति भिक्षुः- आः शिष्याभास भिक्षुखे - 5 ट, अस्मानवधीरयसीति' विब्रुवाणः । एवमनित्यं शब्दं बुभुत्समानाय अनित्यः शब्द इति विषर्यंमनुपदर्श्य यदेव किञ्चिदुच्यते - कृतकत्वादिति वा, यत् कृतकं तदनित्यमिति वा, कृतकत्वस्य तथैवोपपत्तेरिति वा, कृतकत्वस्यान्यथानुपपत्तेरिति वा, तत् सर्वमस्यानपेक्षितमापततोऽसम्बद्धाभिधानबुद्ध्या; तथा चानवेंहितो न बोधुमर्हतीति । १६. यत् कृतकं तत् सर्वमनित्यं यथा घटः, कृतकथ शब्द इति वचनमर्थसामर्थ्य - 10 नैवापेक्षितशब्दानित्यत्वनिश्चायकमित्यवधानमत्रेति चेत् ; न, परस्पराश्रयात् । अवधाने हि सत्येंतोऽर्थनिश्चयः, तस्मै च्चावधानमिति । न च पर्षत्प्रतिवादिनौ प्रमाणीकृतवदिनौ यदेतद्वचनसम्बन्धाय प्रयतिष्येते । तथासैंति न हेत्वाद्यपेक्षेयताम्, तदवचनादेव तदर्थनिश्वयात् । अनित्यः शब्द इति त्वपेक्षिते उक्ते कुत इत्याशङ्कायां कृतकत्वस्य तथैवोपपत्तेः कृतकत्वस्यान्यथानुपपत्तेर्वेत्युपतिष्ठते, तदिदं विषयोपदर्शनार्थत्वं प्रतिज्ञाया इति ॥७॥ 15 ६१७. ननु यत् कृतकं तदनित्यं यथा घटः कृतकश्च शब्द इत्युक्ते गम्यत एतद् अनित्यः शब्द इति, तस्य सामर्थ्यलब्धत्वात्, तथापि तद्वचने पुनरुक्तत्वप्रसङ्गात्, "अर्थादापन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्तम्” [ न्यायसू० ५. २. १५ ] । आह चfsfushri परित्यज्याक्षिणी निमील्य चिन्तय तावत् किमियतों प्रतीतिः स्यान्नवेति भावे किं प्रपञ्चमालया" [ हेतु परि० १] इत्याह गम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि पक्षधर्मोपसंहारवत् तदुपपत्तिः ॥ ८ ॥ १८. साध्यमेव धर्मस्तस्याधारस्तस्य सन्देहस्तदपनोदाय - यः कृतकः सोऽनित्य इत्युक्तेऽपि धर्मिविषयसन्देह एव - किमनित्यः शब्दो घटो वेति ?, तन्निराकरणाय गम्यमानस्यापि साध्यस्यै निर्देशो युक्तः, साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोप- 25 १ भैक्षान्नम् । २ - ० पानमा० - डे० । ३ करोमि । ४ पिण्डपानार्थम् । ५ ० ति ब्रुवा०ता० । ६ निन्दन् । ७ शब्दलक्षणम् । ८ प्रतिपाद्यस्य । 8 प्रथमतः । १० असावधानः । ११ वचनात् । १२-०९र्थे नि०-डे० । १३ अर्थनिश्चयात् । १४ प्रमाणीकृतो वादी यकाभ्याम् । १५ वादि० । १६ प्रमाणीकृतवादित्वेऽपि सति । १७ पर्षत्प्रतिवादिनौ । १८ तच्छब्देन वादी । १६ तद्वचना० - ता० । २० सामर्थ्यात् । २१ डिण्डिको नाम रक्तवर्णो मूषक विशेषः । तद्वत् रागं रक्तिमानं नेत्रगतां परित्यज्य नेत्रे विमलीकृत्येत्यर्थः - मु- टि० । डिण्डिका हि प्रथमनामलिखने विवादं कुर्वन्ति । २२ निर्मील्य - डे० । २३-० यता मदुक्तेन प्र० - डे० । २४ अनित्यत्वस्य । २५ प्रतीतिभावे । २६ सिषाधयिषितधर्मविशिष्टस्य धर्मिणः । Jain Education International 20 For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy