________________
५०
. आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ०१, सू० ५-८. ___८. 'तथा' साध्ये सत्येव 'उपपत्तिः साधनस्येत्येकः प्रकारः । 'अन्यथा' साकाभावे 'अनुपपत्तिः'चेति द्वितीयः प्रकारः । यथा अग्निमानयं पर्वतः तथैव धूमवत्त्वोपपत्तेः, अन्यथा धूमवत्वानुपपत्तेर्वा । एतावन्मात्रकृतः परार्थानुमानस्य भेदो न पारमार्थिकः
स इति भेदपदेन दर्शयति ॥ ४ ॥ 5 ६९. एतदेवाह
__ नानयोस्तात्पर्ये भेदः ॥५॥ ___१०. 'न' 'अनयोः'तथोपपत्यन्यथानुपपत्तिरूपयोः प्रयोगप्रकारयोः 'तात्पर्ये' 'यस्परः शब्दः स शब्दार्थः' इत्येवंलक्षणे तत्परत्वे, 'भेदः' विशेषः । एतदुक्तं भवति
अन्यदभिधेयं शब्दस्यान्यत्प्रकाश्यं प्रयोजनम् । तत्राभिधेयापेक्षया वाचकत्वं भिद्यते, 10 प्रकाश्यं त्वभिन्नम्, अन्वये कथिते व्यतिरेकगतिर्व्यतिरेके चान्वयगतिरित्युभयत्रापि
साधनस्य साध्याविनाभावः प्रकाश्यते । न च यत्राभिधेयभेदस्तत्र तात्पर्यभेदोऽपि । नहि पीनो देवदत्तो दिवा न भुङ्क्ते, पीनो देवदत्तो रात्रौ भुङ्क्ते इत्यनयोर्वाक्ययोरभिधेयमेदोऽस्तीति तात्पर्येणापि भेर्त्तव्यमिति भावः ॥५॥
११. तात्पर्याभेदस्यैव फलमाह15
अत एव नोभयोः प्रयोगः ॥६॥ १२. यत एव नानयोस्तात्पर्ये भेदः 'अत एव नोभयोः' तथोपपत्त्यन्यथानुपपत्योर्युगपत् 'प्रयोगः' युक्तः । व्यायुपदर्शनाय हि तथोपपत्यन्यथानुपपत्तिभ्यां हेतोः प्रयोगः क्रियते । व्याप्त्युपदर्शनं चैकयैव सिद्धमिति विफलो द्वयोः प्रयोगः। यदाह
"हेतोस्तथोपपत्या वा स्यात्प्रयोगोऽन्यथापि वा। 20- विविधोऽन्यतरेणापि साध्यसिद्धिर्भवेदिति ॥” [ न्याया० १७ ]
६१३. ननु योकेनैव प्रयोगेण हेतोप्प्युपदर्शनं कृतमिति कृतं विफलेन द्वितीयप्रयोगेण तर्हि प्रतिज्ञाया अपि मा भूत् प्रयोगो विफलत्वात् । नहि प्रतिज्ञामात्रात् कश्चिदर्थ प्रतिपद्यते, तथा सति हि विप्रतिपत्तिरेव न स्यादित्याह
' विषयोपदर्शनार्थं तु प्रतिज्ञा ॥७॥ 25. १४. 'विषयः' यत्र तथोपपत्त्यान्यथानुपपत्त्या वा हेतुः स्वसाध्यसाधनाय
प्रार्थ्यते, तस्य 'उपदर्शनम्' परप्रतीतावारोपणं तदर्थ पुनः 'प्रतिज्ञा' प्रयोक्तव्येति शेषः ।
.
१ अग्निमत्त्वे सत्येव ।२-०क इति ०-डे । ३ डे. प्रतौ 'न' नास्ति । ५ यः शब्दस्य परार्थस्तत् तात्पर्यमिति भावः । ५ यः परः प्रकृष्टोऽर्थोऽस्य । ६ शब्दस्यार्थः -ता० । ७ (१) यस्तथोपपत्त्या विधिर्वाच्यः अन्यथानुपपत्त्या तु निषेधः। - निति(2) शेषः। सूत्रार्थस्य। १० क्वचिदर्थ-ता० । ११ प्रतिज्ञामात्रादर्थप्रतिपत्तः । १२ विषयप्रद० -ता-मू०।१३ स्वसाध०-३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org