________________
॥ अथ द्वितीयोऽध्यायः ॥ १. लक्षितं स्वार्थमनुमानमिदानी क्रमप्राप्तं परार्थमनुमानं लक्षयति
__यथोक्तसाधनाभिधानजः परार्थम् ॥ १॥ ६२. 'यथोक्तम्' स्वनिश्चितसाध्याविनाभावैकलक्षणं यत् 'साधनम् तस्याभिधानम्। अभिधीयते परस्मै प्रतिपाद्यते अनेनेति 'अभिधानम्' वचनम् , तस्माजातः सम्यगर्थनिर्णयः 'परार्थम्' अनुमानं परोपदेशापेक्षं साध्यविज्ञानमित्यर्थः ॥१॥ ६३. ननु वचनं परार्थमनुमानमित्याहुस्तत्कथमित्याह
_ वचनमुपचारात् ॥ २॥ ६४. अचेतनं हि वचनं न साक्षात्प्रमितिफलहेतुरिति न निरुपचरितप्रमाणभावभाजनम् , मुख्यानुमानहेतुत्वेन तूपचरितानुमानाभिधानपात्रता प्रतिपद्यते । उपचार- : श्रात्र कारणे कार्यस्य । यथोक्तसाधनाभिधानात् तद्विषया स्मृतिरुत्पद्यते, स्मृतेश्चानुमा- 10 नम्, तस्मादनुमानस्य परम्परया यथोक्तसाधनाभिधानं कारणम् , तस्मिन् कारणे वचने कार्यस्यानुमानस्योपचारः समारोपः क्रियते । ततः समारोपात् कारणं वचनमनुमानशब्देनोच्यते । कार्ये वा प्रतिपादकानुमानजन्ये वचने कारणस्यानुमानस्योपचारः । वचनमौपचारिकमनुमानं न मुख्यमित्यर्थः । ____५. इह च मुख्यार्थवाचे प्रयोजने निमित्ते. चोपचारः प्रवर्तते । तत्र मुख्यो- 15 ऽर्थः साक्षात्ममितिफलः सम्यगर्थनिर्णयः प्रमाणशब्दसमानाधिकरणस्य परार्थानुमान- .. शब्दस्य, तस्य बाधा, वचनस्य निर्णयत्वानुपपत्तेः। प्रयोजनम् अनुमानावयवाः प्रतिज्ञादय इति शास्त्रे व्यवहार एव, निर्णयात्मन्यनंशे तद्व्यवहारानुपपत्तेः। निमित्तं तु निर्णयात्मकानुमानहेतुत्वं वचनस्येति ॥ २॥
____ तद् द्वेधा ॥ ३॥ ६६. 'तद्' वचनात्मकं परार्थानुमानं 'द्वेधा' द्विप्रकारम् ॥ ३॥ ६ ७. प्रकारभेदमाह
... तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥ ४ ॥ १ प्रथम द्वितीयं च सूत्रद्वयं ता-मू० प्रती भेदकचिह्न विना सहैव लिखितं दृश्यते। २ यथा उक्तम् । ३ अनुमानशब्दवाच्यताम् । ४ मुख्यार्थस्योपचारः। ५-० शब्दः समा -डे । ६ अग्निर्माणवक इन इत्यत्र मुख्यार्थो दाहकत्वम् , वर्जनीयत्वबुद्धिः प्रयोजनम् , शाब्दप्रवृत्ती निमित्तमुपतापक्रत्वम् । ७ परार्थानुमाने । ८ पूर्वोक्तः। ९ प्रवृत्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org