SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री हेमचन्द्रविरचिता [अ० १, आ० २, सू० २०. $ ७२. से हि साध्यप्रतिपत्तौ वा अविनाभावग्रहणे वा, व्याप्तिस्मरणे वोपयुज्येत ? । न तावत् प्रथमः पक्षः, यथोक्तादेव हेतोः साध्यप्रतिपत्तेरुपपत्तेः । नापि द्वितीयः, विषेक्षे बाधकादेवाविनाभावग्रहणात् । किंच, व्यक्तिरूपो दृष्टान्तः । स कथं साकल्येन व्याप्तिं गमयेत् ? । व्यक्त्यन्तरेषु व्याप्त्यर्थं दृष्टान्तान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेन 5 साकल्येन व्याप्तेरवधारयितुमशक्यत्वादपरापरदृष्टान्तापेक्षायामनवस्था स्यात् नापि तृतीयः, गृहीतसम्बन्धस्य साधनदर्शनादेव व्याप्तिस्मृतेः । अगृहीतसम्बन्धेस्य दृष्टान्तेऽप्यस्मरणात् उपलब्धिपूर्वकत्वात् स्मरणस्येति ॥ १९ ॥ $ ७३. दृष्टान्तस्य लक्षणमाह स व्याप्तिदर्शनभूमिः ॥२०॥ 10 $ ७४. ‘स’ इति दृष्टान्तो लक्ष्यं 'व्याप्तिः' लक्षितरूपा 'दर्शनम्' परस्मै प्रतिपादनं तस्य 'भूमि' आश्रय इति लक्षणम् । $ ७५ ननु यदि दृष्टान्तोऽनुमानाङ्गं न भवति तर्हि किमर्थ लक्ष्यते १ । उच्यते । परार्थानुमाने बोध्यानुरोधादापवादिकस्योदाहरण स्यानुज्ञास्यमानत्वात् । तस्यं च दृष्टान्ताभिधानरूपत्वादुपपन्नं दृष्टान्तस्य लक्षणम् । प्रमातुरपि कस्यचित् दृष्टान्तदृष्टबहि15 र्व्याप्तिबलेनान्तर्व्याप्तिप्रतिपत्तिर्भवतीति स्वार्थानुमानपर्वण्यपि दृष्टान्तलक्षणं नानुपपनम् ॥ २० ॥ ९७६. तद्विभागमाह ४८ से साधर्म्यवैधर्म्याभ्यां द्वेधा ॥ २१ ॥ ७७. स दृष्टान्तः 'साधर्म्येण' अन्वयेन 'वैधर्म्येण' च व्यतिरेकेण भवतीति 20 द्विप्रकारः ॥ २१ ॥ ७८. साधर्म्यदृष्टान्तं विभजते 25 30 साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्यदृष्टान्तः ||२२|| $ ७९. सार्धेनधर्मेण प्रयुक्तो न तु काकतालीयो यः साध्यधर्मस्तद्वान् 'साधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शब्दे साध्ये घटादिः ||२२|| वैधर्म्यदृष्टान्तं व्याचष्टे - ६ ८०. साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्तियोगी वैधर्म्यदृष्टान्तेः ॥२३॥ १८१. साध्यधर्मनिवृत्त्या प्रयुक्ता न यथाकथञ्चित् या साधनधर्मनिवृत्तिः तद्वान् 'वैधर्म्यदृष्टान्तः । यथा कृतकत्वेनानित्ये शब्दे साध्ये आकाशादिरिति ||२३|| इत्याचार्य श्री हेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृतेश्व प्रथमस्याध्यायस्य द्वितीयमाह्निकम् ॥ १ दृष्टान्तः । २ वर्तमानस्य हेतोः । ३ पुंसः । ४ पुंसः । ५ सति । ६ दर्शनम् । ७ शिष्यः । ८ अनुमंस्य+ मानत्वात् । ९ उदाहरणस्य । १० प्रस्तावे । ११ ता - मू०-सं- मू० - प्रत्योः सवृत्तिकताडपत्रीयसूत्रे च 'स' नास्ति । १२ साधनमेव धर्मः । १३ कृतः । १४ साध्यो धर्म० - डे० । १५ इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य द्वितीयमाह्निकम् । प्रथमोऽध्यायः समाप्तः - ता मू० । इत्या... द्वितीयाह्निकम् । प्रथमाध्यायः - सं- मू० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy