SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ साध्यस्य निरूपणम् । ] ९ ६३. अपवादमाह - प्रमाणमीमांसा । बुद्धिसिद्धोऽपि ॥१७॥ $ ६४. नैकान्तेन प्रमाणसिद्ध एव धर्मी किंतु विकल्पबुद्धिप्रसिद्धोऽपि धर्मी भवति । 'अपि ' शब्देन प्रमाण - बुद्धिभ्यामुभाभ्यामपि सिद्धो धर्मी भवतीति दर्शयति । तत्र बुद्धिसिद्धे धर्मिणि साध्यधर्मः सत्त्वमसखं च प्रमाणबलेन साध्यते यथा अस्तिं 5 सर्वज्ञः, नास्ति षष्ठं भूतमिति । $ ६५. ननु धर्मिणि साक्षादसति भावाभावोभयधर्माणामसिद्धविरुद्धानैकान्तिकत्वेनानुमानविषयत्वायोगात् कथं सच्वासत्त्वयोः साध्यत्वम् ? । तदाह"नॉसिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । विरुद्ध धर्मोऽभावस्य सा सत्ता साध्यते कथम् ? ।। " [ प्रमाणवा० १.१९२ - ३] इति । 10 ४७ $ ६६. नैर्वम्, मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् । न च तत्सिद्धौ तत्सस्वस्यापि प्रतिपन्नत्वाद् व्यर्थमनुमानम्, तदभ्युपेतमपि वैयात्याद्यो न प्रतिपद्यते तं प्रत्यनुमानस्य साफल्यात् । न च मानसज्ञानात् खरविषाणादेरपि सद्भावसम्भावनातोऽतिप्रसङ्गः, तज्ज्ञानस्य बाधकप्रत्ययविप्लावितसत्ताकवस्तुविषयतया मानस- 15 प्रत्यक्षाभासत्वात् । कथं तर्हि षष्ठभूतादेर्धर्मित्वमिति चेत्; धर्मिंप्रयोगकाले बाधक'प्रत्ययानुदयात्सत्त्वसम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासत्त्वेन सर्वसंशीतिः, सुनिश्चिताऽसम्भवद्बाधकप्रमाणत्वेन सुखादाविव सच्चनिश्चयात्तत्र संशयायोगात् । $ ६७. उभयसिद्धो धर्मी यथा अनित्यः शब्द इति । नहि प्रत्यक्षेणावग्दर्शिभिरैनिर्यंत दिग्देशकालावच्छिन्नाः सर्वे शब्दाः शक्या निश्चेतुमिति शब्दस्य प्रमाणबुद्ध्यु - 20 भयसिद्धता तेनानित्यत्वादिधर्मः प्रसाध्यत इति ॥ १७ ॥ $ ६८. ननु दृष्टान्तोऽप्यनुमानाङ्गतया प्रतीतः । तत् कथं साध्यसाधने एवानुमानाङ्गमुक्ते न दृष्टान्तः १, इत्याह ने दृष्टान्तोऽनुमानाङ्गम् ॥ १८ ॥ $ ६९. 'दृष्टान्तः' वक्ष्यमाणलक्षणो नानुमानस्य 'अङ्गम्' कारणम् ॥ १८ ॥ ६ ७०, कुत इत्याह- साधनमात्रात् तत्सिद्धेः ॥ १९ ॥ $ ७१. दृष्टान्तरहितात्साध्यान्यथानुपपत्तिलक्षणात् 'साधनात्' अनुमानस्य साध्यप्रतिपत्तिलक्षणस्य भावान्न दृष्टान्तोऽनुमानाङ्गमिति । Jain Education International १ धर्मों भवति किं - डे० । २ अविसंवादिज्योतिर्ज्ञानान्यथानुपपत्तेः । ३ उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । ४ हेतूनाम् । ५ धर्मिणि । ६ हेतुरुभयधर्मः । ७ विरुद्धधर्मो - मु० । बिरुद्धोऽधर्मो डे० । ८ सत्ता सार्वज्ञी । ९ मैवम् — डे० । १० धर्मिणः । ११ सत्त्वम् । १२ विषयाणाम् । १३ सन्देहः । १४ सुखादिवश्च सत्त्व० सु-पा० । १५ प्रमातृभिः । १६ - ० रनियतदिग्दर्शिभिर्नियतदिग्देश - डे० । १७ किं सिद्धम् ? । १८ प्रसा इति ता० | १९ अष्टादशमे कोनविंशतितमं च सूत्रद्वयं ता - मू० प्रतौ भेदक चिह्नं बिना सहैव लिखितं दृश्यते । अत्रास्माकमपि द्वयोरेकत्वं सुचारु भांति - सम्पा० । For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy