________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ०२, सू०१४-१९. - $ ५७. अबाध्यग्रहणव्यवच्छेद्यां बाधां दर्शयति
प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः ॥१४॥ $ ५८. प्रत्यक्षादीनि तद्विरुद्धार्थोपस्थापनेन बाधकत्वात् 'बाधाः । तत्र प्रत्यक्षबाधा यथा अनुष्णोऽग्निः, न मधु मधुरम् , न सुगन्धि विदलन्मालतीमुर्कुलम् , अचाक्षुषो 5 घटः, अश्रावणः शब्दः, नास्ति बहिरर्थ इत्यादि। अनुमानबाधा यथा सँरोम हस्ततलम् ,
नित्यः शब्द इति वा । अत्रानुपलम्भेन कृतकत्वेन चानुमानबाधा । आगमबाधा यथा • प्रेत्याऽसुखप्रदो धर्म इति । परलोके सुखप्रदत्वं धर्मस्य सर्वागमसिद्धम् । लोकबाधा यथा
शुचि नरशिरस्कपालमिति । लोके हि नरशिरःकपालादीनामशुचित्वं सुप्रसिद्धम् । स्ववच
नबाधा यथा माता मे वन्ध्येति । प्रतीतिबाधा यथा अचन्द्रः शशीति । अत्र शशिनश्च10 न्द्रशब्दवाच्यत्वं प्रतीतिसिद्धमिति प्रतीतिबाधा ॥१४॥
६ ५९. अत्र साध्यं धर्मः, धर्मधर्मिसमुदायो वेति संशयव्यवच्छेदायाह___ साध्यं साध्यधर्मविशिष्टो धर्मी, क्वचित्तु धर्मः ॥१५॥
६६०. 'साध्यम्' साध्यशब्दवाच्यं पक्षशब्दाभिधेयमित्यर्थः । किमित्याह 'साध्यधर्मेण अनित्यत्वादिना 'विशिष्टो धर्मी' शब्दादिः । एतत् प्रयोगकालापेक्षं साध्यशब्दका 15 च्यत्वम् । 'कचित्तु' व्याप्तिग्रहणकाले 'धर्म' साध्यशब्देनोच्यते, अन्यथा व्यासेरघटनात् । नहि धूमदर्शनात् सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधादिति॥१५॥ धर्मिस्वरूपनिरूपणायाह
धर्मी प्रमाणसिद्धः ॥१६॥ ६ ६१. 'प्रमाणैः प्रत्यक्षादिभिःप्रसिद्धो 'धर्मी' भवति यथाग्निमानय देश इति । अत्र 20 हि देशः प्रत्यक्षेण सिद्धः। एतेन-"सर्व एवानुमानानुमेयव्यवहारो बुध्यारूढेन
धर्मधर्मिन्यायेन, न बहिः सदसत्त्वमपेक्षते” इति सौगतं मतं प्रतिक्षिपति । नहीयं विकल्पबुद्धिरन्तर्बहिर्वाऽनासादितालम्बना धर्मिणं व्यवस्थापयति, तदैवास्तवत्वे तंदोधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेः तैबुद्धेः पारम्पैर्येणापि वस्तुव्यवस्थापकत्वायो
गात् । ततो विकल्पेनान्येन वा व्यवस्थापितः पर्वतादिविषयमावं भजन्नेव धर्मितां प्रति25 पद्यते । तथा च सति प्रमाणसिद्धस्य धर्मिता युक्तैव ॥१६॥
१ साध्य । २ कृतकत्वादिति हेतुः। ३ विचित्ररसप्रभवत्वात् अनेकरससंयोगवत्। ४ लतैकदेशत्वात् पत्रवत् । ५रूपादत्यन्तव्यतिरिक्तत्वात् वायुवत् । ६ यथावस्थेन रूपेणाप्रतिभासमानत्वात् यदस्ति तद्यथावस्थितरूपेणाप्रतिभासमानमपि नास्ति यथा ज्ञानम् । ७ शरीरावयवत्वात् .बाहुवत् । - वन्ध्यास्त्रीसमानाङ्गत्वात् । चन्द्रशब्दवाच्यः शशी न भवति आकाशोदितत्वात् सूर्यवत् । -१०-०लापेक्ष्यं -ता। १९ साधनम् । १२ साध्यम् । १३-०मेयस्य व्य..ता.। १४ धर्मिणः। १५ स धर्मी आधारो ययोः । १६ तद्बुद्धेर्विकल्पज्ञानस्य।१७निर्विकल्पकं प्राप्तविषयम तद्विकल्पोऽपि प्राप्तविषय इति। एवंलक्षणपारम्पयेणापि। १८ निर्विकल्पेन। १९ विकल्पस्य विषयभावम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org