________________
साध्यस्य निरूपणम् । ] . प्रमाणमीमांसा । दिति चेत् ; हन्तैवं कारणं कार्यस्यानुमापकमित्यनिष्टमापद्येत । शकटोदयकृत्तिकोदयादीनां तु यथाऽविनाभावं साध्यसाधनभावः । यदाह
"एकार्थसमवायस्तु यथा येषां तथैव ते ।
गमका गमकस्तन्न शकटः कृत्तिकोदितेः॥" एवमन्येष्वपि साधनेषु वाच्यम् । ननु कृतकत्वानित्यत्वयोरेकार्थसमवायः कस्मामे- 5 प्यते ?; न, तयोरेकत्वात् । यदाह- "प्राचन्तापेक्षिणी सत्ता कृतकत्वमनित्यता। ।
___ एकेव हेतुः साध्यं च इयं नैकाश्रयं ततः॥" इति । ६५०. स्वभावादीनां चतुर्णा साधनानां विधिसाधनता, निषेधसाधनत्वं तु विरोधिनः । स हि स्वसन्निधानेनेतरस्य प्रतिषेधं साधयति अन्यथा विरोधासिद्धेः। 10
६ ५१. 'च'शब्दो यत एते स्वभावकारणकार्यव्यापका अन्यथानुपपन्नाः स्वसाध्यमुपस्थापयन्ति तत एव तदभावे स्वयं न भवन्ति, तेषामनुपलब्धिरप्यभावसाधनीत्याह । तत्र स्वभावानुपलब्धिर्यथा नात्र घटः, द्रष्टुं योग्यस्यानुपलब्धेः। कारणानुपलब्धिर्यथा नात्र धूमोऽग्न्यभावात् । कार्यानुपलब्धिर्यथा नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति धूमाभावात् । व्यापकानुपलब्धिर्यथा नात्र शिंशपा वृक्षाभावात् ।
15 .५२. विरोधि तु प्रतिषेध्यस्य तत्कार्यकारणव्यापकानां च विरुद्ध विरुद्धकार्य च । यथा न शीतस्पर्शः, नाप्रतिबद्धसामर्थ्यानि शीतकारणानि, न रोमहर्षविशेषाः; न तुषारस्पर्शः, अग्नेधूमावति प्रयोगनानात्वमिति ॥ १२ ॥ ___६ ५३. साधनं लक्षयित्वा विभज्य च साध्यस्य लक्षणमाहसिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः ॥१३॥
20 ५४. साधयितुमिष्टं 'सिषाधयिषितम्' । अनेन साधयितुमनिष्टस्य साध्यत्वव्यवच्छेदः, यथा वैशेषिकस्य नित्यः शब्द इति शास्त्रोक्तत्वाद्वैशेषिकेणाभ्युपगतस्याप्याकाशगुणत्वादेर्न साध्यत्वम् , तदा साधयितुमनिष्टत्वात् । इष्टः पुनरनुक्तोऽपि पक्षो भवति, यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनाशनाद्यङ्गवदित्यत्र परार्था इत्यात्मार्थाः । बुद्धिमत्कारणपूर्वकं क्षित्यादि कार्यत्वादित्यत्राऽशरीरसर्वज्ञपूर्वकत्वमिति ।
६५५. 'असिद्धम् इत्यनेनानध्यवसाय-संशय-विपर्ययविषयस्य वस्तुनः साध्यत्वम् , न सिद्धस्य॑ यथा श्रावणः शब्द इति । "नानुपलब्धे न निर्णीते न्यायः प्रवर्तते" .[न्यायभा० १.१.१] इति हि सर्वपार्षदम् ।।
५६. 'अबाध्यम्' इत्यनेन प्रत्यक्षादिबाधितस्य साध्यत्वं मा भूदित्याह । एतत् साध्यस्य लक्षणम् । 'पक्षः' इति साध्यस्यैव नामान्तरमेतत् ॥१३॥
१ शकटोदये प्रत्यक्षे सति कृत्तिकोदयस्यापि प्रत्यक्षत्वात् नानुमानतस्तदवगमः । २ एकार्थसमवायिनो व्यापका इति। ३ अभ्यथानुपपनत्वादेव । ४धूमाभावाद्वा व्या०-ता०। ५ कार्य यथा-डे०। ६ परार्था बुद्धि०-डे०।७-०पूर्व क्षि० -डे०। ८ इत्याह ।
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org