________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० २, सू० १२,१३. ४५. कारणाभावेऽपि कार्यस्य भावे अहेतुत्वमन्यहेतुत्वं वा भवेत् । अहेतुत्वे सदा सत्त्वमसत्त्वं वा भवेत् । अन्यहेतुत्वे दृष्टादन्यतोऽपि भवतो न दृष्टजन्यता अन्याभावेऽपि दृष्टाद्भवतो नान्यहेतुकत्वमित्यहेतुकतैव स्यात् । तत्र चोक्तम्-“यस्त्वन्यतोप
भवन्नुपलब्धो न तस्य धूमत्वं हेतुभेदात्। कारणं च वहिमस्य इत्युक्तम्।" । अपि च
"अग्निस्वभावः शक्रस्य मूर्दा यद्यग्निरेव सः।
अथाननिस्वभावोऽसौधूमस्तत्र कथं भवेत्॥” [प्रमाणवा० १. ३७] इति । $ ४६. तथा चेतनां विनानुपपद्यमानः कार्य प्राणादिरनुमापयति तां श्रावणत्वमिवानित्यताम् , विपर्यये बाधकवशात्सत्त्वस्येवास्यापि व्याप्तिसिद्धेरित्युक्तप्रायम् । तन्न 10 प्राणादिरसाधारणोऽपि चेतनां व्यभिचरति ।
४७. किंच, नान्वयो हेतो रूपं तदभावे हेत्वाभासाभावात् । विपक्ष एव सन् विरुद्धः, विपक्षेऽपि-अनैकान्तिकः, सर्वज्ञत्वे साध्ये वक्तृत्वस्यापि व्यतिरेकाभाव एव हेत्वाभासत्वे निमित्तम् , नान्वयसन्देह इति न्यायवादिनापि व्यतिरेकामावादेव हेत्वा
भासावुक्तौ । असाधारणोऽपि यदि साध्याभावेऽसमिति निश्चीयेत तदा प्रकारान्तरा13 भावात्साध्यमुपस्थापयमानैकान्तिकः स्यात् । अपि च यद्यन्वयो रूपं स्यात् तदा यथा
विपक्षकदेशवृत्तेः कथञ्चिदव्यतिरेकादगमकत्वम् , एवं सपक्षैकदेशवृत्तेरपि स्यात् कथचिदनन्वयात् । यदाह
"रूपं यद्यन्वयो हेतोय॑तिरेकवादिष्यते ।
स सपक्षोभयो न स्यादसपक्षोभयो यथा ॥" 20 सपक्ष एव सत्वमन्वयो न सपक्षे सत्त्वमेवेति चेत्, अस्तु, स तु व्यतिरेक एवेत्यस्मन्मतमेवाङ्गीकृतं स्यात् । वयमपि हि प्रत्यपीपदाम अन्यथानुपपत्त्येकलक्षणो हेतुरिति ।
४८. तथा, एकस्मिन्नर्थे दृष्टेऽदृष्टे वा समवाय्याश्रितं साधनं साध्येन । तच्चैकार्थसमवायित्वम् एकफलादिगतयो रूपरसयोः, शकटोदय-कृत्तिकोदययोः, चन्द्रोदय-समुद्रयोः, वृष्टि-साण्डपिपीलिकाक्षोभयोः, नागवल्लीदाह-पत्रकोथयोः। तत्र 'एकार्थसमवायी' 25 रसो रूपस्य, रूपं वा रसस्य; नहि समानकालभाविनोः कार्यकारणभावः सम्भवति ।
४९. ननु समानकीलकार्यजनकं कारणमनुमास्यते इति चेत्, न तर्हि कार्यमनुमितं स्यात् । कारणानुमाने सामर्थ्यात् कार्यमनुमितमेव, जन्याभावे जनकत्वाभावा
१ अहेतुकत्वम् । २ अग्नेरन्यो हेतुरस्य । ३ वा अन्य -डे । वा भावयेत् अन्य० -मु-पा० । वल्मीकस्य । ५ न केवलं सपक्षे किन्तु विपक्षेऽपि । ६ सपक्षे उभयं सत्त्वमसत्त्वं वा यस्य । ७ समवायाश्रितम्-ता० । ८ इदं फलं विशिष्टरूपवत् विशिष्टरसवत्त्वात् । इदं नभःखण्डं भाविशकटोदयं कृत्तिकोदय"वत्त्वात् । अयं कालः समुद्रवृद्धिमान् चन्द्रोदयवत्त्वात् । एवम् अप्रेऽपि कालो धर्मी। ९-०गतरूप०-डे। १० कार्यरूपाद्रूपकारणं ज्ञायते । तच्च कीदृशम् । समानकालं यत्कार्य रसलक्षणं तजनकमनुमीयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org