________________
साधनस्य निरूपणम् । प्रमाणमीमांसा । लिङ्गविशेषनिश्चयः प्रत्यक्षकृतः, फले तु भाविनि नानुमानादन्यनिबन्धनमुत्पश्यामः । कचिद् व्यभिचारात् सर्वस्य हेतोरहेतुत्वे कार्यस्यापि तथा प्रसङ्गः । बाष्पादेरकार्यत्वाभेति चेत् । अत्रापि यत् यतो न भवति न तत् तस्य कारणमित्यदोषः । यथैव हि किञ्चित् कारणमुद्दिश्य किञ्चित्कार्यम् तथैव किश्चित् कार्यमुद्दिश्य किश्चित् कारणम् । यद्वदेवाजनक प्रति न कार्यत्वम् , तद्वदेवाजन्यं प्रति न कारणत्वमिति नानयोः कश्चिद्विशेषः । अपि । च रसादेकसामग्रयनुमानेन रूपानुमानमिच्छता न्यायवादिनेष्टमेव कारणस्य हेतुत्वम्। यदाह- .
"एकसामग्र्यधीनस्य रूपादे रसतो गतिः।
हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥” [प्रमाणवा० १. १०] इति । ६४३. न च वयमपि यस्य कस्यचित् कारणस्य हेतुत्वं ब्रूमः । अपि तु यस्य 10 न मन्त्रादिना शक्तिप्रतिबन्धो न वा कारणान्तरवैकल्यम् । तत् कुतो विज्ञायत इति चेत् । अस्ति तावद्विगुणादितरस्य विशेषः । तत्परिज्ञानं तु प्रायः पांशुरपादानामप्यस्ति । यदाहुः
"गम्भीरगर्जितारम्भनिभिन्नगिरिगहराः।। . स्वगत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ॥” न्यायम० पृ. १२९] - 15
"रोलम्बगवलव्यालतमालमालिनत्विषः ।
वृष्टिं व्यभिचरन्तीह नैवंप्रायाः पयोमुचः॥" ["षड्द० २०"] इति । $ ४४. 'कार्यम्' यथा वृष्टौ विशिष्टनदीपूरः, कृशानौ धूमः, चैतन्ये प्राणादिः । पूरस्य वैशिष्टयं कथं विज्ञायत इति चेत् ; उक्तमत्र नैयायिकैः । यदाहुँः"मावर्तवर्तनाशालिविशालकलुषोदकः ।
.. 20 कल्लोलविकटास्फाखरफुटफेनच्छटाङ्कितः॥ वहद्बहलशेवालफलशाईलसकुलः।
नदीपुरविशेषोऽपि शक्यते न न वेदितुम् ? ॥” [न्यायम० पृ. १३०] इति धूमप्राणादीनामपि कार्यत्वनिश्चयो न दुष्करः । यदाहुँः
"कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः। ... स भवस्तभावेऽपि हेतुमत्तां विलवयेत् ॥" [ प्रमाणवा० १.३५ ]
25
१ प्रत्यक्षतः -मु-पा०। २ नावश्यं कारणानि कार्यवन्ति। ३ कार्य गमकं। ४ यदाहुः -ता। ५ यथा धूमादमिर्जायते तथाग्निरिन्धन( ? )विकारकर्ता दाहकोऽपि ज्ञायते । अयं रसो विशिष्टसामग्रीवा(मा)न् वैशिष्ट्यस्यान्यथानुपपत्तरिति कारणा(कार्या)द्विशिष्टसामग्रीज्ञानं तस्माच रूपादिजनकत्वज्ञानम् । ६ हेतुः कारणं तस्य धर्मो रूपादिजनकत्वं तस्यानुमानं तस्य लिङ्गात् परिच्छेदः । ७ सहकारिकारणम् । साकल्यमप्रतिबद्धस्वभावश्च । ९ हलधरादीनामपि । १० प्राणादि पू०-ता०। ११ कथं ज्ञाय डे० । १२ यदाह -ता। २३-०स्फटः फेन-डे। १४ शाड्वल -डे०। १५ शक्यते न निवे०-डे । १६ यदाह -ता। २७ कार्यधर्मः कारणे सति भवनम् , कारणाऽभावे वाऽभवनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org