________________
__ आचार्यश्रीहेमचन्द्रविरचिता [२० १, आ०२, सू० १२. स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि
चेति पञ्चधा साधनम् ॥ १२॥ ... ४०. स्वभावादीनि चत्वारि विधेः साधनानि, विरोधि तु निषेधस्येति पञ्चविधम् ‘साधनम्' । 'स्वभावः' यथा शब्दानित्यत्वे साध्ये कृतकत्वं श्रावणत्वं वा । 5 . ४१. ननु श्रावणत्वस्यासाधारणत्वात् कथं व्याप्तिसिद्धिः । विपर्यये बाधक
प्रमाणबलात् सत्वस्येवेति ब्रूमः । न चैवं सत्त्वमेव हेतुः तद्विशेषस्योत्पत्तिमत्त्व-कृतकत्वप्रयत्नानन्तरीयकत्व-प्रत्ययभेदभेदित्वादेरहेतुत्वापत्तेः । किंच, किमिदमसाधारणत्वं नाम ? । यदि पक्ष एव वर्तमानत्वम् । तत् सर्वस्मिन् क्षणिके साध्ये सत्वस्यापि समानम् ।
साध्यधर्मवतः पक्षस्यापि सपक्षता चेत् ; इह कः प्रद्वेषः १ । पक्षादन्यस्यैव सपक्षत्वे लोह10 लेख्यं वज्र पार्थिवत्वात् काष्ठवदित्यत्र पार्थिवत्वमपि लोहलेख्यतां वजे गमयेत् । अन्यथा
नुपपत्तेरभावान्नेति चेत् इदमेव तर्हि हेतुलक्षणमस्तु । अपक्षधर्मस्यापि साधनत्वापत्तिरिति चेत् । अस्तु यद्यविनाभावोऽस्ति, शकटोदये कृत्तिकोदयस्य, सर्वज्ञसद्भावे संवादिन उपदेशस्ये गमकत्वदर्शनात् । काकस्य काष्ण्यं न प्रासादे धावल्यं विनानुपपद्यमान
मित्यनेकान्तादगमकम् । तथा, घटे चाक्षुषत्वं शब्देऽनित्यतां विनाप्युपपद्यमानमिति । 15 तन श्रावणत्वादिरसाधारणोऽप्यनित्यतां व्यभिचरति । ननु कृतकत्वाच्छब्दस्यानित्यत्वे
साध्ये पर्यायवद्. द्रव्येऽप्यनित्यता प्रामोति । नैवम् , पर्यायाणामेवानित्यतायाः साध्यत्वात् , अनुक्तमपीच्छाविषयीकृतं साध्यं भवतीति किं स्म प्रस्मरति भवान् ? । ननु कृतकत्वानित्यत्वयोस्तादात्म्ये साधनवत् साध्यस्य सिद्धत्वम् , साध्यवच्च साधनस्य साध्यत्वं प्रसजति । सत्यमेतत् , किं तु मोहनिवर्तनार्थः प्रयोगः । यदाह
"सादेरपि न सान्तत्वं व्यामोहाद्योऽधिगच्छति।
साध्यसाधनकस्य तं प्रति स्यान्न दोषभाक॥" ... ४२. 'कोरणं' यथा बाष्पभावेन मशंकवर्तिरूपतया वा सन्दियमाने धूमेऽग्निः, विशिष्टमेघोतिर्वा वृष्टौ । कथमयमाबालगोपालाविपालाङ्गनादिप्रसिद्धोऽपि नोपलब्धः
सूक्ष्मदर्शिनापि न्यायवादिना ?। कारणविशेषदर्शनाद्धि सर्वः कार्यार्थी प्रवर्तते । स तु '25 विशेषो ज्ञातव्यो योऽव्यभिचारी । कारणत्वनिश्चयादेव प्रवृत्तिरिति चेत्, अस्त्वसौ
१ अनित्यत्वविपरीते नित्यत्वे अश्राव्यरूपः पूर्वं शब्दः पश्चात् कथं उच्चारणात् श्राव्यो जात इति बाधकप्रमाणं तस्मानित्यत्वेऽघटमानकं श्रावण[त्व मनित्यत्वं व्यवस्थापयति। २सत्त्वमर्थक्रियाकारित्वम् । तच्चानित्यपक्ष एव घटत इति श्रावणत्वमपि सत्त्वमायातम् । ३-०तुत्वोपपत्तेः-ता० । ४ गम्ये( यशकटो. दयाभावे कृत्तिकोदयात्। ५ कश्चित् पुरुषः सर्वभावसाक्षात्कर्ताऽस्ति अविसंवादिज्योतिर्ज्ञानान्यथानुपपत्तेः । ६ शब्दोऽनित्यः चाक्षुषत्वादित्यस्मिन्ननुमाने शब्दानित्यता विनाऽपि घटादौ चाक्षुषत्वमुपपद्यते इत्यन्यत्रोपपद्यमानं शब्दस्यानित्यतां न साधयति। ७ स्म विस्म०-डे०। ८ अनित्यत्वम् । करणम्-मु१०मशवर्ति०-डे । ११ अयं धूमोऽग्नेः । १२ वृष्टि विनी विशिष्टमेघोन्नतेः। १३ गम्यायां वृष्टौ । १४ सूरिराह । १५ अविकलकारणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org