________________
अविनाधावस्य निरूपणम् । प्रमाणमीमांसा ।
६३४. एवेन पञ्चलक्षणकत्वमपि नैयायिकोक्तं प्रत्युक्तम् , तस्याप्यविनाभावप्रपञ्चत्वात् । तथाहि-त्रैरूप्यं पूर्वोक्तम् , अबाधितविषयत्वम् , असत्प्रतिपक्षत्वं चेति पञ्च रूपाणि । तत्र प्रत्यक्षागमवाधितकर्मनिर्देशानन्तरप्रयुक्तत्वं बाधितविषयत्वं यथाऽनुष्णस्तेजोवयवी कुतकत्वात् घटवत् । ब्रामणेन सुरापेया द्रवद्रव्यत्वात् क्षीरवत् इति। तनिषेधादबाधितविषयत्वम् । प्रतिपक्षहेतुबाधितत्वं सत्प्रतिपक्षत्वं यथाऽनित्यः शब्दो नित्यधर्मानुपलब्धे । अत्र प्रतिपक्षहेतु:-नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति । तनिषेधादसत्प्रतिपक्षत्वम् । तत्र बाषितविषयस्य सत्प्रतिपक्षस्य चाविनाभावाभावादविनाभावेनैव रूपद्वयमपि सङ्गहीतम् । यदाह-बाधाविनाभावयोर्विरोधात्" [ हेतु परि० ४] इति । अपि च, स्वलक्षणलक्षितपक्षविषयत्वाभावात् तदोषेणैव दोषद्वयमिदं चरितार्थ किं पुनर्वचनेन ? । तत् स्थितमेतत् साध्याविनाभौवकलक्षणादिति ॥९॥
- 10 ३५. तत्राविनाभावं लक्षयतिसहक्रमभाविनोः सहक्रमभावनियमोऽविनाभावः ॥१०॥
६ ३६. 'सहभाविनोः एकसामग्र्यधीनयोः फलादिगतयो रूपरसयोः व्याप्यव्यापकयोष शिंशपात्ववृक्षत्वयोः, 'क्रमभाविनो' कृत्तिकोदयशकटोदययोः, कार्यकारणयोश्च धूमधूमध्वजयोर्यथासङ्ख्यं यः 'सहक्रमभावनियमः'-सहभाविनोः सहभावनियमः क्रममा- 15 विनोः क्रममावनियमः, साध्यसाधनयोरिति प्रकरणाल्लभ्यते सः 'अविनाभावः ॥१०॥
६ ३७. अथैवंविधोऽविनाभावो निश्चितः साध्यप्रतिपस्यङ्गमित्युक्तम् । तनिश्चयश्च कुतः प्रमाणात् । न तावत् प्रत्यक्षात् , तस्यैन्द्रियकस्य सन्निहितविषयविनियमितव्यापारत्वात् । मनस्तु यद्यपि सर्वविषयं तथापीन्द्रियगृहीतार्थगोचरत्वेनैव तस्य प्रवृत्तिः। अन्यथान्ध-बधिराधभावप्रसङ्गः । सर्वविषयता तु सकलेन्द्रियगोचरार्थविषयत्वेनैवोच्यते 20 •न स्वातन्त्र्येण । योगिप्रत्यक्षेण त्वविनाभावग्रहणेऽनुमेयार्थप्रतिपैत्तिरेव ततोऽस्तु, किं तपस्विनाऽनुमानेन । अनुमानात्वविनाभावनिश्चयेऽनैवस्थेतरेतराश्रयदोषप्रसङ्ग उक्त एव । न च प्रमाणान्तरमेवंविधविषयग्रहणप्रवणमस्तीत्याह
ऊहात् तन्निश्चयः ॥ ११ ॥ ३८. 'ऊहात्'तर्कादुक्तलक्षणात्तस्याविनाभावस्य 'निश्चयः ॥ ११ ॥ ६३९. लक्षितं परीक्षितं च साधनम् । इदानीं तत् विभजति
१ साध्यमनुमेयमिति यावत् । २-०तधर्म०-७० । ३ तात्पर्य पृ० ३४०.।४-०स्य तत्प्र०-डे । ५ यदाहुः-ता। ६ पक्षदोषावेवैतौ। ७साध्यसाधनयोः । ८ खनिश्चित इत्यनेन निश्चितः सन् । ९ प्रत्यक्षाग्राह्यबाह्यार्थापेक्षया सुखादीश्च एवमेव गृह्णाति । १० मनसैव सर्वेन्द्रियार्थग्रहणात् । ११ अग्न्यादि । १२.पत्तिरपि ततो०-डे।९३ अनुमानतो ह्यविनाभावनिश्चये तस्याप्यनुमानस्याविनाभावनिश्चये कमनमानास्तरं चिन्त्यम् (१)। तस्यापि अन्यदित्यायनवस्था । इतरेतराश्रयस्तु अनुमानादविनाभावनिश्चयो अविनाभावे च निश्चिते अनुमानोत्थानमिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org