________________
४०
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० २, सू० ९-१२. हि अयमर्थः स्यात्-सपक्षे सत्त्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चितवचनेन सन्दिग्धान्वयोऽनैकान्तिको निरस्तः यथा सर्वः कश्चिद्वक्तृत्वात् , वक्तृत्वं हि सपंक्षे सर्वज्ञे सन्दिग्धम् । विपक्षे त्वसत्त्वमेव निश्चितमिति तृतीयं रूपम् । तत्रासत ग्रहणेन विरुद्धस्य निरासः। विरुद्धो हि विपक्षेऽस्ति । एवकारेण साधारणस्य विपक्षक5 देशवृत्तेर्निरासः, प्रयत्नानन्तरीयकत्वे हि साध्ये नित्यत्वं विपक्षकदेशे विद्युदादावस्ति,
आकाशादौ नास्ति । ततो नियमेनास्य निरासोऽसत्वशब्दात् । पूर्वस्मिनवधारणे हि अयमर्थः स्यात्-विपक्षं एव यो नास्ति स हेतुः, तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि नास्ति ततो न हेतुः स्यात्ततः पूर्व न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृत्तिकोऽनैका
न्तिको निरस्तः । तदेवं त्रैरूप्यमेष हेतोरसिद्धादिदोषपरिहारक्षममिति तदेवाभ्युपगन्तुं 10 युक्तमिति किमेकलक्षणकत्वेनेति ।
६ ३३. तदयुक्तम् , अविनाभावनियमनिश्चयादेव दोषत्रयपरिहारोपपत्तेः । अविनाभावो ह्यन्यथानुपपनत्वम् । तच्चासिद्धस्य विरुद्धस्य व्यभिचारिणो वा न सम्भवति । त्रैरूप्ये तु सत्यप्यविनाभावाभावे हेतोरगमकत्वदर्शनात् , यथा स श्यामो मैत्रतनयत्वात्
इतरमैत्रपुत्रवदित्यत्र । अथ विपक्षानियमवती व्यावृत्तिस्तत्र न दृश्यते ततो न गम15 कत्वम् ; तर्हि तस्या एवाविनाभावरूपत्वादितररूपसद्भावेऽपि तदभावे हेतोः स्वसाध्य
सिद्धि प्रति गमकत्वानिष्टौ सैव प्रधानं लक्षणमस्तु । तत्सद्भावेऽपररूपद्वयनिरपेक्षतया गमकत्वोपपत्तश्च, यथा सन्त्यद्वैतवादिनोऽपि प्रमाणानि इष्टानिष्टसाधैंनदूषणान्यथानुपपपत्तेः । न चात्र पक्षधर्मत्वं सपक्षे सत्चं चास्ति, केवलमविनाभावमात्रेण गमकत्वोप
पत्तिः। ननु पक्षधर्मताऽभावे श्वेतः प्रासादः काकस्य काादित्यादयोऽपि हेतवः 20 प्रसज्येरन् ; नैवम् , अविनाभावबलेनैवापक्षधर्माणामपि गमकत्वाभ्युपगमात् । न चेह
सोऽस्ति। ततोऽविनाभाव एव हेतोः प्रधानं लक्षणमभ्युपगन्तव्यम् , सति तस्मिन्नसत्यपि त्रैलक्षण्ये हेतोर्गमकत्वदर्शनात् । न तु त्रैरूप्यं हेतुलक्षणम् अव्यापकत्वात् । तथा च सर्व क्षणिकं सत्चादित्यत्र मूर्द्धाभिषिक्ते साधने सौगतैः सपक्षेऽसतोऽपि हेतोः सत्त्वस्य गम
कत्वमिष्यत एव । तदुक्तम्25 . "अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् ?। .
. . . नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ? ॥” इति ।
१ सपक्षे दर्शनमन्वयः । २ मीमांसकं प्रति जनो वक्ति। ३ सर्वज्ञस्य सर्वस्य सपक्षत्वात् । ४ अनित्यो घटः कृतकत्वात् शब्दवत् । कृतकत्वं शब्देऽस्ति नाकाशादौ। ५ यथा प्रयत्नानन्तरीयकः शब्दो अनित्यत्वात् घटवत् । ६ सपक्षे त्वस्ति एव । ७ यथा असर्वज्ञोऽयं वक्तृत्वात् । अनैकान्तिकस्य । ९.पूर्वस्मिन्ननुमाने । १० पक्षधर्मत्वसपक्षसत्त्वलक्षणं रूपद्वयं । ११ विपक्षानियमवत्या व्यावृत्तेरभावे । १२ विपक्षामियमवत्या व्या. वृत्तः । १३ शून्याद्वैतवादिनः । १४ तन्मते प्रमाणलक्षणः पक्षोऽपि नास्ति कुतः पक्षधर्मता?। १५-०पपत्तेःमु-पा० । १६ स श्यामो मैत्रातनयत्वादित्यादी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org