________________
स्वार्थानुमानस्य निरूपणम् । ] . प्रमाणमीमांसा । ....६ २८. साधनं साध्यं च वक्ष्यमाणलक्षणम् । दृष्टादुपदिष्टाद्वी 'साधनात् यत् 'साध्यस्या 'विज्ञानम्' सम्यगर्थनिर्णयात्मकं तदनुमीयतेऽनेनेति 'अनुमानम्' लिङ्गग्रहणसम्बन्धस्मरणयोः पश्चात् परिच्छेदनम् ॥७॥ ..
तत् द्विधा स्वार्थ परार्थं च ॥ ८॥ ६२९. 'तत्' अनुमानं द्विप्रकार स्वार्थ-परार्थभेदात् । स्वव्यामोहनिवर्तनक्षमम् 5 'स्वार्थम्' । परव्यामोहनिवर्तनक्षमम् 'परार्थम् ॥ ८॥
३०. तत्र स्वार्थ लक्षयतिस्वार्थ स्वनिश्चितसाध्याविनाभावैकलक्षणात् साध
नात् साध्यज्ञानम् ॥ ९॥ ३१. साध्यं विनाऽभवनं साध्याविनाभावः स्वेनात्मना निश्चितः साध्याविना- 10 भावं एवैकं लक्षणं यस्य तत् 'स्वनिश्चितसाध्याविनाभावैकलक्षणम्' तस्मात्तथाविधात् 'साधनात्' लिङ्गात् 'साध्यस्य' लिङ्गिनो 'ज्ञानम' 'स्वार्थम्' अनुमानम् । इह च नयोग्यतया लिङ्गं परोक्षार्थप्रतिपत्तेरङ्गम् , यथा बीजमङ्करस्य, अंदृष्टाद् धूमादग्नेरप्रतिपत्तेः; नापि स्वनिश्च(स्वविष)यज्ञानापेक्षं यथा प्रदीपो घटादेः, दृष्टादप्यनिश्चिताविनाभावादप्रतिपत्तेः । तस्मात्परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य व्यापार इति 'निश्चित ग्रहणम् । 15
३२. ननु चासिद्धविरुद्धानैकान्तिकहेत्वाभासनिराकरणार्थ हेतोः पक्षधर्मत्वम् , सपक्षे सत्त्वम् , विपक्षाद् व्यावृत्तिरिति त्रैलक्षण्यमाचक्षते भिक्षवः। तथाहि-अनुमेये धर्मिणि लिङ्गस्य सत्वमेव निश्चितमित्येकं रूपम् । अत्र सत्ववचनेनासिद्धं चाहूंषत्वादि निरस्तम् । एवकारेण पक्षकदेशासिद्धो निरस्तो यथा अनित्यानि पृथिव्यादीनि भूतानि गन्धवत्त्वात् । अत्र पक्षीकृतेषु पृथिव्यादिषु चतुषु भूतेषु पृथिव्यामेव गन्धवत्त्वम् । सत्त्ववचनस्य पश्चा- 20 स्कृतेनैवकारेणासाधारणो धर्मो निरस्तः । यदि ह्यनुमेय एव सत्त्वमित्युच्येत श्रावणेत्वमेव हेतुः स्यात् । निश्चितग्रहणेन सन्दिग्धीसिद्धः सर्वो निरस्तः । सपक्षे एव सत्त्वं निश्चितमिति द्वितीयं रूपम् । इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः। स हि नास्ति सपक्षे। एवकारेण साधारणानैकान्तिकः, स हि न सपक्षे एव वर्तते किं तु विपक्षेपि । सत्त्वग्रहणात् पूर्वमवधारणकरणेन सपक्षाव्यापिनोऽपि प्रयत्नानन्तरीयकत्वादेर्हेतुत्वमुक्तम्, पश्चादवधारणे 25
१ दृष्टिपथमागतात् । २ परार्थानुमाने कथितात् । ३ अनेन अतः पश्चादर्थता । ४ स्वस्मायिदं खार्थ येन खयं प्रतिपद्यते। ५परस्मायिदं परार्थ येन परः प्रतिपद्यते। ६-०श्चितं सा०-डे । ७-०भावैक. -डे०। -अग्निज्ञानं प्रति धूमस्य योग्यता शक्तिविशेषोऽस्त्येव परं दृष्टो हि धूमो धूमध्वजं गमयति नादृष्ट इति । ९ एतेन धूमो धूमवत्त्वेन निश्चिताविनाभावस्य गमको नान्यथा इत्यावेदितम् । १० यथाऽनित्यः शब्दः चाक्षुषत्वात् घटवदित्यत्र शब्दे चाक्षुषत्वमसिद्धम् । ११ सत्त्वपदाऽग्रतः । १२-०श्रावणमेव-डे । १३ यथाऽनित्यः शब्दः. श्रावणात्वादित्यनित्यत्वे साध्ये श्रावणत्वमेव हेतुर्घटे व्यभिचरतीति । १४ धूमो बाष्पो वा इति सन्देहे धूमादेरग्निसाधनम् । १५ अनेन सत्त्ववचनेन साधारणोऽपि निरस्यते। १६ निरस्त इति संबन्धः । १७ यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवत् । घटे प्रयत्नानन्तरीयकत्वं विद्यते, न विद्युति परम्, तथापि प्रयनानन्तरीयकत्वस्य हेतुत्वं सपक्षकदेशत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org