________________
5
३८
आचार्यश्री हेमचन्द्रविरचिता [अ० १, आ०२, सू० ६-९.
यवश्वमपि न नास्ति । तस्मात् प्रमाणान्तरागृहीतव्याप्तिग्रहणप्रवणः प्रमाणान्तरमूहः ॥१५॥ $ २३. व्याप्तिं लक्षयति
3
$ २४, ‘व्याप्तिः” इति यो व्याप्नोति यंश्च व्याप्यते तयोरुभयोर्धर्मः । तत्र यदा व्यापक'धर्मतया विवक्ष्यते तदा 'व्यापकस्यै' गम्यस्य 'व्याप्ये' धम्र्मे 'सति', यत्र धर्मिणि व्यायमस्ति तत्र सर्वत्र 'भाव एव' व्यापकस्य स्वगतो धर्मो व्याप्तिः । ततश्च व्याप्यभावापेक्षा व्याप्यस्यैवं व्याप्तताप्रतीतिः । नत्वेवमवधार्यते - व्यापकस्यैव व्याप्ये सति भाव इति, हेत्वभावप्रसङ्गात् अव्यापकस्यापि मूर्तत्वादेस्तत्र भावात् । नापि - व्याप्ये सत्येवेत्यवधार्यते, 10 प्रयत्नानन्तरीयकत्वादेरहेतुत्वापत्तेः, साधारणश्च हेतुः स्यान्नित्यत्वस्य प्रमेयेष्वेव भावात् ।
20
व्याप्तिर्व्यापकस्य व्याप्ये सति भाव एव व्याप्यस्य. वा तत्रैव भावः ॥ ६॥
६- २५. यदा तु व्याप्यधर्मतया व्याप्तिर्विवक्ष्यते तदा 'व्याप्यस्य वा' गमकस्य 'तत्रैव' व्यापके गम्ये सति यत्र धर्मिणि व्यापकोऽस्ति तत्रैव 'भावः' न तदभावेऽपि व्याप्तिरिति । अत्रापि नैवमवधार्यते - व्याप्यस्यैव तत्र भाव इति हेत्वभावप्रसङ्गादव्याप्यस्यापि तंत्र भावात् । नापि - व्याप्यस्य तंत्र भाव एवेति, सपक्षैकदेशष्वृत्तेरहेतुत्वप्राप्तेः साधारणस्य च 15 हेतुत्वं स्यात्, प्रमेयत्वस्य नित्येष्ववश्यंभावादिति ।
$ २६. व्याप्यव्यापकधर्मतासङ्कीर्तनं तु व्याप्तेरुभंयंत्र तुल्यधर्मतयैकाकारा प्रतीतिर्मा भूदिति प्रदर्शनार्थम् । तथाहि - पूर्वत्रांयोगव्यवच्छेदेनावधारणम् उत्तत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः ? । तदुक्तम्
" लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः ।
नियमस्य विपर्यासेsसम्बन्धो लिङ्गलिङ्गिनोः ।। " इति ।। ६ ।। $ २७. अथ क्रमप्राप्तमनुमानं लक्षयति
साधनात्साध्यविज्ञानम् अनुमानम् ॥७॥
१ अग्न्यादिः । २ धूमादिः । ३ पर्वतः (१) । ४ अग्नितया । ५ अग्निरूपस्य साध्यस्य । ६ धूमे । ७ पर्वतादौ । धूमः । ९ ननु व्याप्तेरुभयधर्माविशेषे कथं व्याप्तताप्रतीतिः हेतोरेव न व्यापकस्यापि हेतोरेव हि व्याप्ततां स्मरन्ति तथा चाहुः - " व्याप्तो हेतुस्त्रिधैव सः" [ हेतु० १] इत्याशङ्क्याह—ततश्चेति । १० - ० पेक्षया - डे० | ११ व्याप्यस्यैव प्रतीतिः - ता० । १२-०स्यैव व्याप्यताप्रतीतिः - मु० । १३ व्यापकेन साध्ययेन कर्त्रा व्याप्यभावो व्याप्यत्वं हेतोस्तदा ( द )पेक्षते व्याप्तताप्रतीतिः । १४ अग्नेर्हेतुत्वं स्यात् (?) । १५ [अ]व्यापकस्यापि हेतोर्मूर्तत्वादेस्तत्र पर्वते भावात् । १६ कृतकत्वादेः अत्र हि व्याप्यस्य सत्त्वमेव नास्ति विद्युदादिना व्यभिचारात् । विद्युदादौ व्यापकत्वम ( कम ) नित्यत्वं प्रयत्नानन्तरीयकत्वादिविनाप्यस्ति इति । १७ साधारणहेत्वाभासोऽसम्यग् हेतुः स्यादिति । १८ पर्वतादौ । १९ व्याप्यस्य धूमस्य हेतुत्वं न स्यात् । व्याप्तौ सत्यां हेतुभावः । व्याप्तिस्त्वीदृशी कुत्रापि नास्ति । २० व्यापकस्यापि वस्तत्र पर्वते भावात् । २१ यत्र ब्यापकोऽस्ति तत्र । २२ उभयत्रेति साध्ये साधने च । २३ भाव एव । २४ व्यापकधर्मत्वे । २५ लिङ्ग एव लिङ्गी लिङ्गिनि सति इतरद्भवत्येवेति विपर्यासः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org