________________
ऊहस्य निरूपणम् । ] . प्रमाणमीमांसा । 'वभूतभारासमर्थत्वात् । सामर्थ्यऽपि प्रकृतमेवानुमानं व्याप्तिग्राहकम् , अनुमानान्तरं वा १ । तत्र प्रकृतानुमानात् व्याप्तिप्रतिपत्तावितरेतराश्रयः। व्याप्तौ हि प्रतिपन्नायामनुमानमात्मानमासादयति, तदात्मलाभे च व्याप्तिप्रतिपत्तिरिति । अनुमानान्तरात्तु व्याप्तिप्रतिपत्तावनवस्था तस्यापि गृहीतव्यापिकस्यैव प्रकृतानुमानव्याप्तिग्राहकत्वात् । तद्याप्तिग्रहश्च यदि स्वत एव, तदा पूर्वेण किमपराद्धं येनानुमानान्तरं मृग्यते । अनुमानान्तरेण चेत् ; 5 तर्हि युगसहस्रेष्वपि व्याप्तिग्रहणासम्भवः । . .
२०. ननु यदि निर्विकल्पकं प्रत्यक्षमविचारकम् तर्हि तत्पृष्ठभावी विकल्पो व्याप्तिं ग्रहीष्यतीति चेत् ; नैतत् , निर्विकल्पकेन व्याप्तेरग्रहणे विकल्पेन ग्रहीतुमशक्यत्वात् निर्विकल्पकगृहीतार्थविषयत्वाद्विकल्पस्य । अथ निर्विकल्पकविषयनिरपेक्षोऑन्तरगोचरो विकल्पः; स तर्हि प्रमाणमप्रमाणं वा ?। प्रमाणत्वे प्रत्यक्षानुमानातिरिक्तं प्रमाणान्तरं 10 तितिक्षितव्यम् । अप्रामाण्ये तु ततो व्याप्तिग्रहणश्रद्धा षण्ढात्तनयदोहदः। एतेन-"अनुपलम्भात् कारणव्यापकानुपलम्भाच कार्यकारणव्याप्यव्यापकभावावगमः" इति प्रत्युक्तम् , अनुपलम्भस्य प्रत्यक्षविशेषत्वेन कारणव्यापकानुपलम्भयोश्च लिङ्गत्वेन तज्जेनितस्य तस्यानुमानत्वात् , प्रत्यक्षानुमानाभ्यां च व्याप्तिग्रहणे दोषस्याभिहितत्वात् ।।
२१. वैशेषिकास्तु प्रत्यक्षफलेनोहापोहविकल्पज्ञानेन व्याप्तिप्रतिपत्तिरित्याहुः। 15 तेषामप्यध्यक्षफलस्य प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयीकरणम् , तदन्यत्वे च ।। प्रमाणान्तरत्वप्रसक्तिः। अथ व्याप्तिविकल्पस्य फलेवान प्रमाणत्वमनुयोक्तुं युक्तम् । न, एतत्फलस्यानुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् सन्निकर्षफलस्य विशेषणज्ञानस्येव विशेष्यज्ञानापेक्षयेति । ___६ २२. यौगास्तु तर्कसहितात् प्रत्यक्षादेव व्याप्तिग्रह इत्याहुः । तेषामपि यदि 20 न केवलात् प्रत्यक्षाब्याप्तिग्रहः किन्तु तर्कसहकृतात् तर्हि तोदेव व्याप्तिग्रहोऽस्तु । किमस्य । तपस्विनो यशोमार्जनेन, प्रत्यक्षस्य वा तर्कप्रसादलब्धव्याप्तिग्रहापलापकृतघ्नत्वारोपेणेति । अथ तर्कः प्रमाणं न भवतीति न ततो व्याप्तिग्रहणमिष्यते । कुतः पुनरस्य न प्रमाणत्वम् , अव्यभिचारस्तावदिहापि प्रमाणान्तरसाधारणोऽस्त्येवं ? । व्याप्तिलक्षणेन विषयेण विष
१-०श्रयम्-डे०।२-०त्वे न प्रत्य०-डे०।३ एतेनानुपलम्भात् कार्य०-डे०।४(१) न उपलम्भात् प्रत्यक्षात्। नानुमानात् । नाऽत्र धूमोऽग्नेरभावादित्यनुपलम्भः ॥१॥ नात्र शिंशपा वृक्षाऽभावात् ॥२॥ "धूमाधी[३] वहिविज्ञानं धूमक्षानमधीस्तयोः । प्रत्यक्षानुपलम्माभ्यामिति पञ्चभिरन्धयः॥" ५ (१) नास्त्यत्र घटो अनुपलम्भात् प्रत्यक्षानुपलम्भादित्यर्थः, स्वभावानुपलम्भो हि धूमाधीरित्युल्लेखलक्षणः कार्यकारणव्याप्यव्यापकभावावगमे व्यापिपर्ति ततस्तस्मादपि भवति स बौद्धमते। ६(2) कार्यकारणस्यावगमो व्यापकानुपलम्भाद्वयाप्यव्यापकत्वस्यानुपलम्भात् तूभयस्य किन्तु सोप्यूहादेवेति। ७ निराकृतम् । अनुमानत्वेन। ९ यद्धि लिङ्गाजायते ज्ञानं तदनुमानमेव । १० प्रत्यक्षस्य हि फलं प्रत्यक्षमनुमानं वा । तत्र प्रत्यक्षं घटोऽयमिति अनुमानं तु अग्निरत्र धूमादिति । ११ अग्रहणमित्युक्तयुक्तेः । १२ प्रत्यक्षफलत्वेनेति हि उक्तम् । १३ फलस्याप्यनु०-मु-पा० । १४ सामान्यज्ञानाद्विशेषज्ञानम् (१) । १५ विशेष्यज्ञानं विशेषणज्ञानं प्रमाणम् (?)। १६ व्याप्याभ्युपगमे व्यापकप्रसञ्जनं तर्कः। (१७"व्यापकं तदतनिष्ठं व्याप्यं तनिष्ठमेव च। सायं व्यापकमित्याहुः साधनं व्याप्यमुच्यते ॥" "योगेऽन्वयवस्येवं व्यतिरेके विपर्ययः।" १.-स्त्वेव-डे । १९ प्रमेयाधीना प्रमाणव्यवस्था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org