________________
आचार्यश्रीहेमचन्द्रविरचिता अ० १, आव २, सू०५. कृतमिन्द्रियं तदेकत्वविषयं प्रत्यक्षमुपजनयतीति प्रत्यक्षरूपतास्य गीयत इति चेत् न, स्वविषयविनियमितमूर्तेरिन्द्रियस्य विषयान्तरे सहकारिशतसमवधानेऽप्यप्रवृत्तेः । नहि परिमलस्मरणसहायमपि चक्षुरिन्द्रियमविषये गन्धादौ प्रवर्तते । अविषयश्चातीतवर्तमाना
वस्थाव्याप्येकं द्रव्यमिन्द्रियाणाम् । नाप्यदृष्टसहकारिसहितमिन्द्रियमेकत्वविषयमिति 5 वक्तुं युक्तम् उक्तादेव हेतोः। किंच, अदृष्टसव्यपेक्षादेवात्मनस्तद्विज्ञानं भवतीति वरं वक्तुं
युक्तम् । दृश्यते हि स्वमविद्योदिसंस्कृतादात्मनो विषयान्तरेऽपि विशिष्टज्ञानोत्पत्तिः। ननु यथाञ्जनादिसंस्कृतं चक्षुः सातिशयं भवति तथा स्मरणसहकृतमेकत्वविषयं भविष्यति । नैवम् , इन्द्रियस्य स्वविषयानतिलङ्घनेनैवातिशयोपलब्धेः, न विषयान्तरग्रहण
रूपेण । यदाह भट्टः10. "यश्चाप्यतिशयो दृष्टः स स्वार्थानतिलचनात् । ।
दूरसूक्ष्मादिष्टौ स्यात् न रूपे श्रोत्रवृत्तितः॥" [ श्लोकवा० सूत्र २ श्लो० ११४ ] इति । तत् स्थितमेतत् विषयभेदात्प्रत्यक्षादन्यत्परोक्षान्तर्गतं प्रत्यभिज्ञानमिति । ____१५. न चैतदप्रमाणम् विसंवादाभावात् । क्वचिद्विसंवादादप्रामाण्ये प्रत्यक्षस्यापि - तथा प्रसङ्गो दुर्निवारः । प्रत्यभिज्ञानपरिच्छिन्नस्य चात्मादीनामेकत्वस्याभावे बन्धमो15 क्षव्यवस्था नोपपद्यते । एकस्यैव हि बद्धत्वे मुक्तत्वे च बद्धो दुःखितमात्मानं जानन्
मुक्तिसुखार्थी प्रयतेत । भेदे त्वन्य एव दुःख्यन्य एव सुखीति कः किमर्थं वा प्रयतेत ।
तस्मात्सकलस्य दृष्टादृष्टव्यवहारस्यैकत्वमूलत्वादेकत्वस्य च प्रत्यभिज्ञायत्तजीवितत्वाद्भ- वति प्रत्यभिज्ञा प्रमाणमिति ॥४॥
१६. अथोहस्य लक्षणमाह20 उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् ऊहः ॥ ५॥
-- ६१७. 'उपलम्भः' प्रमाणमात्रमत्र गृह्यते न प्रत्यक्षमेव अनुमेयस्यापि सोधनस्य सम्भवात् , प्रत्यक्षवदनुमेयेष्वपि व्याप्तेरविरोधात् । 'व्याप्तिः' वक्ष्यमाणा तस्या 'ज्ञानम् तद्ग्राही निर्णयविशेष 'ऊहः'।
६१८. न चायं व्याप्तिग्रहः प्रत्यक्षादेवेति वक्तव्यम् । नहि प्रत्यक्षं यावान् कश्चिद् 25 धूमः स देशान्तरे कालान्तरे वा पावकस्यैव कार्य नार्थान्तरस्येतीयतो व्यापारान् कर्तु
समर्थ सनिहितविषयबलोत्पत्तेरविचारकत्वाच । ___६ १९. नाप्यनुमानात् , तस्यापि व्याप्तिग्रहणकाले योगीव प्रमाता सम्पद्यत इत्ये.१ स्वविषयवार्तमानिकरूपादौ। २ विषयान्तरे गन्धादौ। ३ अदृष्टं भाग्यं कर्मेत्यर्थः । ४ विषयान्तरा. प्रवृत्तिरूपाखेतोः । ५-०द्यासं०-डे० । ६ नहि संस्कृतमपि चक्षुर्गन्धादिग्रहणे शक्तम् । ७स्वविषय० । . दूरसूक्ष्मादिदर्शनेन चक्षुषोऽतिशयो भवति, न श्रवणस्य, रूपविषयेष्वव्यापारात् । नहि रूपे श्रौत्री वृत्तिः संक्रामति । १० विषयभेदादित्ययं हेतुः । ११ यथा स एव क्षिप्रो जक्ष्यते (१) । १२.सं एवायमिति । १३-०त्वे सति च-डे । १४-०स्य दृष्टव्य०-डे० । १५ शब्दानित्यत्वे साध्ये कृतकत्वं हि साधनम् प्रत्ययभेदभेदित्वे. नानुमेयम् । १६ बाष्पादिभावेन सन्दिह्यमाने धूमेऽग्नेरनुमेयस्यापि साधनत्वं वक्ष्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org