________________
प्रत्यभिज्ञाया निरूपणम् । ]
प्रमाणमीमांसा ।
निन्दतोक्तम् 'धिक्करभमतिदीर्घवक्रग्रीवं प्रलम्बोष्ठ कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपेशं पशूनाम्' इति । तदुपश्रुत्य दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य ' नूनमयमर्थोऽस्य करभशब्दस्य' इति [ यदवैति ] तदपि दर्शनस्मरणकारणकत्वात् सङ्कलनाज्ञानं प्रत्यभिज्ञानम् ।
$ ११. येषां तु सादृश्यविषयमुपमानाख्यं प्रमाणान्तरं तेषां वैलक्षण्यादिविषयं 5 प्रमाणान्तरमनुषज्येत । यदाहु:
"उपमानं प्रसिद्धार्थ साधर्म्यात् साध्यसाधनम् । तद्वैधर्म्यात् प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ॥” [ लघीय० ३.१० ] " इदमल्पं महद् दूरमासन्नं प्रांशु नेति वा ।
व्यपक्षातः समक्षेऽर्थे विकल्पः साधनन्तरम् ||" [ लघीय० ३. १२] इति । 10 $ १२. अथ साधर्म्यमुपलक्षणं योगविभागो वा करिष्यत इति चेत्; तर्ह्यकुशलः सूत्रकारः स्यात्, सूत्रस्य लक्षणरहितत्वात् । यदाहु:"अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तो भैमनवद्यं च सूत्रं मूत्रविदो विदुः ॥” अस्तोभमनधिकम् ।
३५
६ १३. ननु 'तत्' इति स्मरणम् ' इदम् ' इति प्रत्यक्षमिति ज्ञानद्वयमेव, न ताभ्यामन्यत् प्रत्यभिज्ञानाख्यं प्रमाणमुत्पश्यामः । नैतद्युक्तम्, स्मरणप्रत्यक्षाभ्यां प्रत्यभिज्ञाविषयस्यार्थस्य ग्रहीतुमशक्यत्वात् । पूर्वापराकारैकधुरीणं हि द्रव्यं प्रत्यभिज्ञानस्य विषयः। न च तत् स्मरणस्य गोचरस्तस्यानुभूतविषयत्वात् । यदाहु:
"पूर्वमितमात्रे हि जायते स इति स्मृतिः ।
20
स एवायमितीयं तु प्रत्यभिज्ञाऽतिरेकिणी ||" [ तत्त्वसं ० का ० ४५३ ] नापि प्रत्यक्ष गोचरः, तस्यं वर्तमानविर्वर्त्तमात्रवृत्तित्वात् । न च दर्शनस्मरणाभ्यामन्येद् ज्ञानं नास्ति, दर्शनस्मरणोत्तरकालभाविनो ज्ञानान्तरस्यानुभूतेः । न चानुभूयमानस्यापलापो युक्तः अतिप्रसङ्गात् ।
$ १४. ननु प्रत्यक्षमेवेदं प्रत्यभिज्ञानम् इत्येके । नैवम्, तस्य सन्निहितवार्तमा- 25 निकार्थविषयत्वात् ।
" सम्बद्धं वर्तमानं च गृह्यते चतुरादिना” [ श्लोकवा ० सूत्र ४ श्लो० ८४ ] इति मा स्म विस्मरः । ततो नातीतवर्तमानयोरेकत्वमध्यक्षज्ञानगोचरः । अथ स्मरणर्सेह
१ -० प्रीवप्र०ता० । २-० मपसदं -मु० -०मपशब्दं - डे० । ३ निकृष्टम् । ४ तात्पर्य० पृ० १९८। ५ यदाह- ता० । ६ सादृश्यसाधनम् । ७ दीर्घम् । अपेक्षा त्यल्पमहदादिव्यापाराः । ९ अक्षनिरपेक्षं मानसं ज्ञानं विकल्पः । १० प्रमाणान्तरं प्राप्नोति । ११ उपमानमिति सूत्रावयवयोगः । १२ उपमानं द्विधा साधर्म्यत वैधर्म्यतचेति विभागः । १३ पूरणार्थवादिनिपातरहितमस्तोभम् । १४ तदेवेदमित्यत्रैकत्वं विषयः, गोसदृशो गवय इत्यत्र तु . सादृश्यम् । १५ यदाह - ता० । १६ पूर्व प्रवृसमा० - मु-पा । १७ पूर्वप्रमितमात्रादधिका । १८ - ०स्य तस्य विव० - डे० | १९ तस्येति प्रत्यक्षस्य । २० विवर्तः परिणामः पर्यायः इति यावत् । २९ - ० मन्यज्ञा० - डे० । २२ वैशेषिकादयः । २३ चक्षुरादीन्द्रियसम्बन्धि । २४ सहायम् ।
Jain Education International
For Private & Personal Use Only
15
www.jainelibrary.org