________________
आचार्यश्री हेमचन्द्रविरचिता
[अ० १, आ०२, सू० ४. चार्थाजन्यत्वान्न प्रामाण्यमस्या इति चेत्; तत् किं प्रमाणान्तरेऽप्यर्थजन्यत्वमविसंवाद- ' हेतुरिति विप्रलब्धोऽसि १ । मैवं मुहः, यथैव हि प्रदीपः स्वसामग्रीबललब्धजन्मा घटादिमिरजनितोऽपि तान् प्रकाशयति तथैवावरणक्षयोपशमसव्यपेक्षेन्द्रियानिन्द्रियबललब्धजन्म संवेदनं विषयमवभासयति । " नाननुकृतान्वयव्यतिरेकं कारणम् नाकारणं 6 विषयः” इति तु प्रलापमात्रम्, योगिज्ञानस्यातीतानागतार्थगोचरस्य तदजन्यस्यापि प्रामाण्यं प्रति विप्रतिपत्तेरभावात् । किंच, स्मृतेरप्रामाण्येऽनुमानाय दत्तो जलाञ्जलिः, तया व्याप्तेरविषेयीकरणे तदुत्थानायोगात् ; लिङ्गग्रहण सम्बन्धस्मरणपूर्वकमनुमानमिति हि सर्ववादिसिद्धम् । ततश्च स्मृतिः प्रमाणम्, अनुमानप्रामाण्यान्यथानुपपत्तेरिति सिद्धम् ॥ ३ ॥
१९. अथ प्रत्यभिज्ञानं लक्षयति
दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥४॥
$ १०. 'दर्शनम्' प्रत्यक्षम्, 'स्मरणम्' स्मृतिस्ताभ्यां सम्भवो यस्य तत्तथा दर्शनस्मरणकारणकं सङ्कलनाज्ञानं 'प्रत्यभिज्ञानम्' । तस्योल्लेखमाह - ' तदेवेदम्', सामान्यनिर्दे15 शेन नपुंसकत्वम्, स एवायं घटः, सैवेयं पटी, तदेवेदं कुण्डमिति । 'तत्सदृशः गोसदृशो गवयः, 'तद्विलक्षणः' गोविलक्षणो महिषः, 'तत्प्रतियोगि' इदमस्मादल्पं महत् दूरमासन्नं वेत्यादि । 'आदि' ग्रहणात् -
"रोमशो दन्तुरः श्यामो वामनः पृथुलोचनः ।
10
20
३४
यस्तत्र चिपिटघाणस्तं चैत्रमवधारयेः ॥" [ न्यायम० पृ० १४३ ] "पयोम्बुभेदी हंसः स्यात्पद्पाँदैर्भ्रमरः स्मृतः । सप्तपर्णस्तु विद्वद्भिर्विज्ञेयो विषमच्छदः ॥ पञ्चवर्ण भवेद्रत्नं मेचकारूपं पृथुस्तनी । युवतिश्चैकशृङ्गोऽपि गण्डकः परिकीर्तितः ॥"
इत्येवमादिशब्दश्रवणात्तथाविधानेव चैत्रहंसादीनवलोक्य तथ सत्यापयति यदा तदा 25 तदपि संकलनाज्ञानमुक्तम्, दर्शनस्मरणसम्भवत्वाविशेषात् । यथा वा औदीच्येनं क्रमेलकं
१ अर्थजन्यत्वात् ज्ञानस्य प्रामाण्याभ्युपगमे मरुमरीचिकादौ जलज्ञानमप्यर्थजन्यत्वात् प्रमाणं स्यात् । अथ प्रतिभासमानार्थजन्यं प्रमाणमिष्यते तदानुमानं न स्यात् प्रमाणम् । अनुमानं त्यनर्थसामान्यप्रतिभासि न च तेन जन्यम्, भवन्मते सामान्यस्यावस्तुत्वात् । यत् प्रमाणं तदनर्थजन्य ( तदर्थज ) मेवेति अतिव्याप्ति ( ० वेति व्याप्ति)रपि दुष्टा स्वसंवेदनप्रत्यक्षेण व्यभिचारात् तद्धि स्वात्मविषयं, न च तेन जन्यम् । २ व्याप्तेरग्रहणेऽग्रहणं प्रमाणत्वात् । ३ रिति ॥ अथ मु-पा । ४ क्वचिद्वयस्ताभ्यामपि यथेदमस्माद्भिन्नमित्यादिकं प्रत्यभिज्ञानं दर्शनादेव स्मरणरहितात् । तस्मात् मिन्नमित्यादिकं केवलादेव स्मरणात् प्रत्यमिज्ञानम् । ५ मदीयेन गृहस्थितेन गवा सदृशोऽयं गवय इत्यादिकम् [अत्र टिप्पणकारेण उभयकारणकत्वं उदाहृतम् - सम्पा०] । ६ एकत्वसाहश्यवैसदृश्यादिनाऽर्थद्वयघटनं सङ्कलना । ७-० पदै० मु० । ८ तथा वचनं सत्या ० - डे० । ९ संकलनमु० - डे० । १० अत्र उदीच्येन इति सुचारु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org