________________
5
॥ अथ द्वितीयमाह्निकम् ॥ ६१. इहोद्दिष्टे प्रत्यक्षपरोक्षलक्षणे प्रमाणद्वये लक्षितं प्रत्यक्षम् । इदानीं परोक्षलक्षणमाह
. अविशदः परोक्षम् ॥ १॥ ६२. सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् 'सम्यगर्थनिर्णयः' इत्यनुवर्तते। तेनाविशदः सम्यगर्थनिर्णयः परोक्षप्रमाणमिति ॥१॥ ६३. विभागमाह
स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः ॥ २॥ $ ४. 'तद्' इति परोक्षस्य परामर्शस्तेन परोक्षस्यैते प्रकारा न तु स्वतन्त्राणि प्रमाणान्तराणि प्रक्रान्तप्रमाणसङ्ख्याविघातप्रसङ्गात् ।
६५. ननु स्वतन्त्राण्येव स्मृत्यादीनि प्रमाणानि किं नोच्यन्ते ?, किमनेन द्रविड- 10 मण्डकभक्षणन्यायेन ?। मैवं वोचः, परोक्षलक्षणसङ्ग्रहीतानि परोक्षप्रमाणान्न विभेदवनि; यथैव हि प्रत्यक्षलक्षणसगृहीतानीन्द्रियज्ञान-मानस-स्वसंवेदन-योगिज्ञानानि सौगतानां न प्रत्यक्षादतिरिच्यन्ते, तथैव हि परोक्षलक्षणाक्षिप्तानि स्मृत्यादीनि न. मूलप्रमाणसङ्ख्यापरिपन्थीनीति । स्मृत्यादीनां पश्चानां द्वन्द्वः ॥२॥ ६६. तत्र स्मृतिं लक्षयति
. .. 15 - वासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥३॥ ७. 'वासना' संस्कारस्तस्याः 'उद्बोधः प्रबोधस्तद्धेतुका तन्निबन्धना,
"कालमसंखं संखं च धारणा होइ नायव्वा" [ विशेषा• गा० ३३३ ] इति वचनाचिरकालस्थायिन्यपि वासनाऽनुदुद्धा न स्मृतिहेतुः, आवरणक्षयोपशमसदृशदर्शनादिसामग्रीलब्धप्रबोधों तु स्मृतिं जनयतीति 'वासनोरोधहेतुका' इत्युक्तम् । 20 अस्या उल्लेखमाह 'तदित्याकारा' सामान्योक्तौ नपुंसकनिर्देशस्तेन स घटः, सा पटी, तत् कुण्डलॅमित्युल्लेखर्वती मतिः स्मृतिः।
६८. सा च प्रमाणम् अविसंवादित्वात् स्वयं निहितप्रत्युन्मार्गणादिव्यवहाराणां दर्शनात् । नन्वनुभूयमानस्य विषयस्याभावानिरालम्बना स्मृतिः कथं प्रमाणम् ? । नैवम् , अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः, अन्यथा प्रत्यक्षस्याप्यनुभूतार्थविषयत्वादप्रामाण्यं 25 प्रसज्येत । स्वविषयावभासनं स्मृतेरप्यविशिष्टम् । विनष्टो विषयः कथं स्मृतेर्जनकः ?, तथा
१ अत्र प्रथमं द्वितीयं च सूत्रद्वयं ता-मू० प्रतौ भेदकचिह्न विना सहैव लिखितं दृश्यते-सम्पा० । २-०मिज्ञोहा०-सं-मू० । ३ धारणा। ४ स्मृतिजननाभिमुख्यम् । ५-०धा अनुस्मृ०-मु-पा०। ६ अभ्यासदशापनायां गुणनादौ तदित्याकाराभावात् प्रायिकमिदम् । ७ कुण्डमि०-डे०। ८-०वती स्मृ०-डे। ९अविसंवादित्वमस्या [सिद्धमिति चेदित्याह.। १० यद्यनुभूतेनार्थेन सालम्बनत्वेऽपि स्मृतेरप्रामाण्यमातिष्ठसे तदा प्रत्यक्षस्यापि किं नाप्रामाण्यं भवेदिति एकोद्देशेन तस्यापि निरालम्बनत्वात् । ११ अनुभूतविषय.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org