SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० २, सू० १-३. .११५३. तथा, परिणाम उक्तलक्षणः स विद्यते यस्य स ' परिणामी' । कूटस्थनित्ये ह्यात्मनि हर्षविषादसुखदुःखभोगादयो विवर्ताः प्रवृत्तिनिवृत्तिधर्माणो न वर्तेरन् । एकान्तनाशिनि च कृतनाशाकृताभ्यागमौ स्याताम्, स्मृतिप्रत्यभिज्ञान निहितप्रत्युन्मार्गणप्रभृतयश्च प्रतिप्राणिप्रतीता व्यवहारा विशीर्येरन् । परिणामिनि तूत्पादव्ययधौव्यधर्मयात्मनि 5 सर्वमुपपद्यते । यदाहुः 10 15 ३२ "यथाहेः कुण्डलावस्था व्यपैति तदनन्तरम् | सम्भवत्यार्जवावस्था सर्पत्वं त्वनुवर्तते ॥ तथैव नित्य चैतन्यस्वरूपस्यात्मनो हि न । निःशेषरूपविगमः सर्वस्यानुगमोऽपि वा ॥ किं त्वस्य विनिवर्तन्ते सुखदुःखादिलक्षणाः । अवस्थास्ताञ्च जायन्ते चैतन्यं स्वनुवर्तते ॥ स्यातामत्यन्तनाशे हि कृतनाशाकृतागमौ । सुखदुःखादिभोगश्च नैव स्यादेकरूपिणः ॥ न च कर्तृत्वभोक्तृत्वे पुंसोऽवस्थां समाश्रिते । ततोऽवस्थावतस्तस्वात् कर्नैवाप्नोति तत्फलम् ॥” [तत्त्वसं ० का ० २२३-२२७] इति अनेनैकान्तनित्यानित्यवादव्युदासः । 'आत्मा' इत्यनात्मवादिनो व्युदस्यति । कायप्रमाणता त्वात्मनः प्रकृतानुपयोगान्नोक्तेति सुस्थितं प्रमातृलक्षणम् ॥ ४२ ॥ इत्याचार्यश्री हेमचन्द्रविरचितायाः प्रमाणमीमांसायास्तद्वृत्तेश्व प्रथमस्याध्यायस्य प्रथममाह्निकम् १ एकान्तनाशिनी (?) २ अवस्थायाः । ३ - ० वतस्तात्त्वात् - डे० । २२७ । ४ एकत्वात् । ५ -०कम् । श्रेयः - ता० । Jain Education International For Private & Personal Use Only • स्थासु तत्तत्त्वात् तत्त्वसं० का ० www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy