________________
प्रमातुर्लक्षणम् ।] . प्रमाणमीमांसा। ततोऽपि प्रत्यभिज्ञा प्रमाणमूहः फलम् । ततोऽप्यूहः प्रमाणमनुमानं फलमिति प्रमाणफलविभाग इति ॥ ३९॥ ६१४६. फलान्तरमाह
हानादिबुद्धयो वा ॥४॥ ६१४७. हानोपादानोपेक्षाबुद्धयो वा प्रमाणस्य फलम् । फलबहुत्वप्रतिपादनं सर्वेषां 5 फलत्वेन न विरोधो वैवक्षिकत्वात् फलस्येति प्रदिपादनार्थम् ॥ ४० ॥ ६ १४८. एकान्तभिन्नाभिन्नफलवादिमतपरीक्षार्थमाह
__ . प्रमाणाद्भिन्नाभिन्नम् ॥४१॥ $ १४९. करणरूपत्वात् क्रियारूपत्वाच्च प्रमाणफलयोर्भेदः । अभेदे प्रमाणफलभेदव्यवहारानुपपत्तेः प्रमाणमेव वा फलमेव वा भवेत् । अप्रमाणाधावृत्या प्रमाणव्यवहारः, 10 अफलान्यावृत्त्या च फलव्यवहारो भविष्यतीति चेत्, नैवम् ; एवं सति प्रमाणान्तराब्यावृत्त्याऽप्रमाणव्यवहारः, फलान्तराध्यावृत्त्याऽफलव्यवहारोऽप्यस्तु, विजातीयादिव सर्जातीयादपि व्यावृत्तत्वाद्वस्तुनः ।
६१५०. तथा, तस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः। भेदे त्वात्मान्तरवत्तदनुपपत्तिः। अथ यत्रैवात्मनि 15 प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवायलक्षणया प्रत्यासत्या प्रमाणफलव्यवस्थितिरिति नात्मान्तरे तत्प्रसङ्ग इति चेत् । न समवायस्य नित्यत्वाध्यापकत्वान्नियतात्मवत्सर्वात्मस्वप्यविशेषान्न ततो नियतप्रमातृसम्बन्धप्रतिनियमः तत् सिद्धमेतत् प्रमाणात्फलं कथश्चिद्भिन्नमभिन्नं चेति ॥ ४१॥ . ६१५१. प्रमातारं लक्षयति
20 खपराभासी परिणाम्यात्मा प्रमाता ॥४२॥ ६१५२. स्वम् आत्मानं परं चार्थमाभासयितुं शीलं यस्य स 'स्वपराभासी' स्वोन्मुखतयाऽर्थोन्मुखतया चावभासनात् घटमहं जानामीति कर्मकर्तृक्रियाणां प्रतीतेः, अन्यतरप्रतीत्यपलापे प्रमाणाभावात् । न च परप्रकाशकत्वस्य स्वप्रकाशकत्वेन विरोधः प्रदीप- . वत् । नहि प्रदीपः स्वप्रकाशे परमपेक्षते । अनेनैकान्तस्वाभासिपरामासिवादिमतनिरासः। 25 स्वपराभास्येव 'आत्मा प्रमाता' ।
१-०पेक्षया बु०-ता०।२ अर्थप्रकाशादीनाम्। ३-०क्षितत्वात्-ता०।४अन्य]प्रमाणात्।५-०लत्वव्य. -डे। ६ प्रमाणान्तरात् । ७ यथैकात्मगतस्य प्रमाणस्य सम्बन्धि द्वितीयात्मगतं फलं न भवति तथैकात्मगतयोरपि मा भूदत्यन्तमेदस्योभयपक्षयोरप्यविशिष्टत्वात्। -.तारं कथयति-डे । एतत्सूत्रानन्तरं ता-मू. प्रतौ एवं लिखितं वर्तते-"इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य प्रथममाह्निकम् । सं-मू० प्रती तु -ध्यायस्याद्याह्निकम् । १० बौद्धस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org