________________
३०
15
केर्तृस्था प्रमाणम् ॥ ३६ ॥
$ १३९. कर्तृव्यापारमुल्लिखन् बोधः प्रमाणम् ||३६|
$१४०. कथमस्य प्रमाणत्वम् ? । करणं हि तत् साधकतमं च करणमुच्यते । 5 अव्यवहितफलं च तदित्याह
आचार्यश्री हेमचन्द्रविरचिता [अ० १, आ० १ सू० ३६-४२.
१३८. प्रमाणं किमित्याह
तस्यां सत्यार्थप्रकाशसिद्धेः ॥३७॥
$१४१. 'तस्याम्' इति कर्तृस्थायां प्रमाणरूपायां क्रियायां 'सत्याम् ' ' अर्थप्रकाशस्य' फलस्य 'सिद्धेः' व्यवस्थापनात् । एकज्ञानगतत्वेन प्रमाणफलयोरभेदो, व्यवस्थाप्यव्यवस्थापकभावात्तु भेद् इति भेदाभेदरूपः स्याद्वादमबाधितमनुपतति प्रमाणफलभाव 10 इतीदमखिलप्रमाणसाधारणमव्यवहितं फलमुक्तम् ॥ ३७ ॥
20
$ १४२. अव्यवहितमेव फलान्तरमाह
अज्ञाननिवृत्तिर्वा ||३८||
$१४३. प्रमाणप्रवृत्तेः पूर्वं प्रमातुर्विवक्षिते विषये यत् 'अज्ञानम्' तस्य 'निवृत्तिः' फलमित्यन्ये । यदाहु:
“प्रमाणस्य फलं साक्षादज्ञानविनिवर्तनम् |
केवलस्य सुखोपेक्षे शेषस्यादानहानधीः || ” [ न्याया० २८ ] इति ॥ ३८ ॥ $ १४४. व्यवहितमाह
अवग्रहादीनां वा क्रमोपंजनधर्माणां पूर्व पूर्व प्रमाणमुत्तरमुत्तरं फलम् ॥३९॥
$१४५. अवग्रहेहावायधारणास्मृतिप्रत्यभिज्ञानोहानुमानानां क्रमेणोपजायमानानां यद्यत् पूर्वं तत्तत्प्रमाणं यद्यदुत्तरं तत्तत्फलरूपं प्रतिपत्तव्यम् । अवग्रहपरिणामवान् ह्यात्मा ईहारूपफलतया परिणमति इतीहाफलापेक्षया अवग्रहः प्रमाणम् । ततोऽपीहा प्रमाणमवायः फलम् । पुनरवायः प्रमाणं धारणा फलम् । ईहाधारणयोर्ज्ञानोपदानत्वात् ज्ञानरूपतोनेया । ततो धारणा प्रमाणं स्मृतिः फलम् । ततोऽपि स्मृतिः प्रमाणं प्रत्यभिज्ञानं फलम् । किया प्रतीयते तथा (?) १ कर्मस्था प्र० - ता - मू० । २ तथाहि कर्मस्था कर्तृस्था चेत् (स्था च ज्ञानस्यापि । त (य) पाहि वहिगता तावत् काचिद्दाहिका शक्तिरभ्युपेया ययापारात् काष्ठानि दग्धानि भवन्ति तथा काष्ठगता दाहक्रिया काचिदस्ति यस्यास्तानि भस्मीभवन्ति । एवमन्यत्रापि ज्ञानार्थयोर्भावनीयम् । ०३ - ० फलं तदि० - डे० । ४ वस्तुत ऐक्येऽपि ज्ञानोन्मुखोऽर्थप्रकाशः अर्थोन्मुखी अज्ञाननिवृत्तिः इति मेदः । -६ अव्यवहितम् । ६ – ० पजननधर्मा०-सं-मू० । ७० धर्मणाम् ता० । ८ एकोनचत्वारिंशत्तमं चत्वारिंशत्तमं
सूत्रद्वयं ता- मू० प्रतौ मेदकचिह्नं विना सहैव लिखितं दृश्यते - सम्पा० । ९ ईहायाश्चेष्टारूपत्वात् धारणायाश्च संस्काररूपत्वात् अज्ञानत्वमिति परस्य अभिसन्धिः । १० ज्ञानमुपादानं ययोर्ज्ञानस्योपादनं वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org