________________
प्रमाणफलस्य निरूपणम् । ] प्रमाणमीमांसा ।
२९ क्रियाकारित्वादसत्त्वम् , कुर्वतः क्रमपक्षभावी दोषः। द्रव्यपर्यायवादयोश्च यो दोषः स उभयवादेऽपि समानः
"प्रत्येकं यो भवेदोषो व्यो वे कथं न सः?" इति वचनादित्याहपूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामे- 5
नास्यार्थक्रियोपपत्तिः ॥ ३३ ॥ ६ १३२. 'पूर्वोत्तरयोः' 'आकारयोः' विवर्तयोर्यथासङ्खयेन यौ 'परिहारस्वीकारौं ताभ्यां स्थितिः सैव 'लक्षणम्' यस्य स चासौ परिणामश्च, तेन 'अस्य' द्रव्यपर्यायात्मकस्यार्थक्रियोपपद्यते ।
६१३३. अयमर्थः-न द्रव्यरूपं न पर्यायरूपं नोभैयरूपं वस्तु, येन तत्तत्पक्षभावी 10 दोषः स्यात् , किन्तु स्थित्युत्पादव्ययात्मकं शबलं जात्यन्तरमेव वस्तु । तेन तत्तत्सहकारिसन्निधाने क्रमेण युगपद्वा तां तामर्थक्रियां कुर्वतः सहकारिकृतां चोपकारपरम्परामुपजीवतो भिन्नामिन्नोपकारोंदिनोदनानुमोदनाप्रमुदितात्मनः उभयपक्षभाविदोषशङ्काकलका कॉन्दिशीकस्य भावस्य न व्यापकौनुपलब्धिबलेनार्थक्रियायाः, नापि तव्याप्यसत्त्वस्य निवृत्तिरिति सिद्धं द्रव्यपर्यायात्मकं वस्तु प्रमाणस्य विषयः ॥३३॥ 15 ६१३४. फलमाह
फलमर्थप्रकाशः ॥३४॥ ६१३५. 'प्रमाणस्य' इति वर्तते, प्रमाणस्य 'फलम्' 'अर्थप्रकाशः' अर्थसंवेदनम् : अर्थार्थी हि सर्वः प्रमातेत्यर्थसंवेदनमेव फलं युक्तम् । नन्वेवं प्रमाणमेव फलत्वेनोक्तं स्यात, ओमिति चेत्, तर्हि प्रमाणफलयोरभेदः स्यात् । ततः किं स्यात् १ । प्रमाणफलयोरैक्ये 20 सदसत्पक्षभावी दोषः स्यात् , नासतः करणत्वं न सतः फलत्वम् । सत्यम् , अस्त्ययं दोषो जन्मनि न व्यवस्थायाम् । यदाहु:
"नासतो हेतुता नापि सतो हेतोः फलास्मता।
इति जन्मनि दोषः स्याद् व्यवस्था तु न दोषभाग् ॥” इति ॥३४॥ ६१३६. व्यवस्थामेव दर्शयति
25 कर्मस्था क्रिया ॥३५॥ ६१३७. कर्मोन्मुखो ज्ञानव्यापारः फलम् ॥३५॥
१-०क्षणेन परि० -सं-मू० । २-०नास्य क्रियो० -सं-मू । ३ स्वतन्त्रद्रव्यपर्यायरूपम् । ४ आदेरुपकार्युपकारयोः सम्बम्धः। ५ "कान्दिशीको भयद्ते"-अभि. चि० ३.३०। ६ क्रमाक्रमौ व्यापकौ तयोः। ७-०प्यस्य सत्त्व०-डे०। ८ अर्थक्रियाक्षमं वस्तु अत्रार्थशब्देनोच्यते । ९ अविद्यमानप्रमाणस्य । १० फलात् प्रमाणस्याभेदो भवन्मते। ततश्च फलस्य साध्यत्वेनासत्त्वात् प्रमाणस्याप्यसत्त्वप्रसङ्गः । असच न करणं भवति सिद्भस्यैवाङ्गीकारात् । तथा, प्रमाणात् फलस्य यद्यभेदः तदा प्रमाणस्य सत्त्वात् फलमपि सदेव स्याद्विद्यमानस्य च [न] फलत्वं साध्यस्यैव फलत्वाभ्युपगमात् । ११ पञ्चत्रिंशत्तमं षट्त्रिंशत्तमं च सूत्रद्वयं ता-मू० प्रती भेदकचिलं विना सहैव लिखितं दृश्यते-सम्पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org