________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १,आ० १, सू० ३२-३५. ६१३०. ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनस्तदवस्थमेव दौस्थ्यम् ; तथाहि-द्रव्यपर्याययोरैकान्तिकमेदाभेदपरिहारेण कथञ्चिद्भेदाभेदवादः स्याद्वादिभिरुपेयते, न चासो 'युक्तो विरोधादिदोषातू-विधिप्रतिषेधरूपयोरेकत्र वस्तुन्यसम्भवान्नीलानीलवत् १ । अथ
केनचिद्रूपेण भेदः केनचिदभेदः; एवं सति भेदस्यान्यदधिकरणमभेदस्य चान्यदिति वैयधि5 करण्यम् २ । यं चात्मानं पुरोधाय भेदो यं चाश्रित्याभेदस्तावप्यात्मानौ भिन्नाभिन्ना
वन्यथैकान्तवादप्रसक्तिस्तथा च सत्यनवस्था ३ । येन च रूपेण भेदस्तेन भेदश्चाभेदश्च येन चाभेदस्तेनाप्यभेदश्च भेदश्चेति सङ्करः ४। येन रूपेण भेदस्तेनाभेदो येनाभेदस्तेन मेद इति व्यतिकरः ५।भेदाभेदात्मकत्वे च वस्तुनो विविक्तेनाकारेण निश्चेतुमशक्तेः
संशयः ६। ततश्चाप्रतिपत्तिः ७ इति न विषयव्यवस्था ८। नैवम् ; प्रतीयमाने वस्तुनि 10 विरोधस्यासम्भवात् । यत्सन्निधाने यो नोपलभ्यते स तेस्य विरोधीति निश्चीयते ।
उपलभ्यमाने च वस्तुनि को विरोधगन्धावकाशः। नीलानीलयोरपि यद्येकत्रोफ्लम्भोऽस्ति तदा नास्ति विरोधः। एकत्र चित्रपटीज्ञाने सौगतैर्नीलानीलयोर्विरोधानभ्युपगमात् , योगैश्चैकस्य चित्रस्य रूपस्याभ्युपगात् , एकस्यैव च पटादेश्वलाचलरक्तारक्तावृताना
वृतादिविरुद्धधर्माणामुपलब्धेःप्रकृते को विरोधशङ्कावकाशः। एतेन वैयधिकरण्यदोषोऽप्य15 पास्तः; तयोरेकाधिकरणत्वेन प्रागुक्तयुक्तिदिशा प्रतीतेः । यदप्यनवस्थानं दूषणमुपन्यस्तम्
तदप्यनेकान्तवादिमतानभिज्ञेनैव, तन्मतं हि द्रव्यपर्यायात्मके वस्तुनि द्रव्यपर्यायावेव भेदः भेदध्वनिना तयोरेवाभिधानात, द्रव्यरूपेणाभेदः इति द्रव्यमेवाभेदः एकानेकात्मकत्वाद्वस्तुनः । यौ च सधैरव्यतिकरौ तौ मेचकज्ञाननिदर्शनेन सामान्यविशेष
दृष्टान्तेन च परिहतौ । अथ तत्र तथाप्रतिभासः समाधानम् ; परस्यापि तदेवास्तु 20 प्रतिभासस्यापक्षपातित्वात् । निर्णीते चार्थे संशयोऽपि न युक्तः, तस्य सकम्पप्रतिपत्ति
रूपत्वादकम्पप्रतिपत्तौ दुर्घटत्वात् । प्रतिपन्ने च वस्तुन्यप्रतिपत्तिरिति साहसम् । उपलब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्ध द्रव्यपर्यायात्मकं वस्त्विति ॥३२॥
६१३१. ननु द्रव्यपर्यायात्मकत्वेऽपि वस्तुनः कथमर्थक्रिया नाम है। सा हि क्रमा25 क्रमाभ्यां व्याप्ता द्रव्यपर्यायैकान्तवदुभयात्मकादपि व्यावर्तताम् । शक्यं हि वक्तुमुभ
यात्मा भावो न क्रमेणार्थक्रियां कतुं समर्थः, समर्थस्य क्षेपायोगात् । न च सहकार्यपेक्षा युक्ता, द्रव्यस्याविकार्यत्वेन सहकारिकृतोपकारनिरपेक्षत्वात् । पर्यायाणां च क्षणिकत्वेन पूर्वापरकार्यकालाप्रतीक्षणात् । नाप्यक्रमेण, युगपद्धि सर्वकार्याणि कृत्वा पुनरकुर्वतोऽनर्थ
- १ भेदाभेदरूपयोः । २ स्वभावम् । ३ युगपदुभयप्राप्तिः सङ्करः । ४ परस्परविषयगमनं व्यतिकरः । ५ छायेवातपस्य । ६ परोक्तदृष्टान्त दूषयन्नाह। ७योगः प्रत्याहारादिस्तं वेत्त्यधीते वा यौगः “तवत्यधीते" [ हैमश० ६. २. ११७ ] इत्यण् । ८ चित्ररूपस्य एकस्याऽवयविताऽभ्युपगमात् । 8 एकस्यैव पटा० -डे । १० विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । ११ द्रव्यपर्यायात्मा । १२ प्रथमद्वितीयकाय(4)योः कालः । '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org