________________
प्रमेयस्य निरूपणम् ।]... प्रमाणमीमांसा । ' • “अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् । . उत्तिष्ठ भिक्षो! फलितांस्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः॥"
[ न्यायम० पृ० ४६४ ] इति । ६१२८. नाप्यक्रमेण क्षणिकेर्थक्रिया सम्भवति । स ह्येको रूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयन् योकेन स्वभावेन जनयेत्तदा तेषामेकत्वं स्यादेकस्वभावजन्यत्वात् । 5 अथ नानास्वभावैर्जनयति-किश्चिदुपादानभावेन किश्चित् सहकारित्वेन ते तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता वा । अनात्मभूताश्चेत् ; स्वभावहानिः। यदि तस्यात्मभूताः; तर्हि तस्यानेकत्वं स्वभावानां चैकत्वं प्रसज्येत । अथ य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते; तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कयं च मा भूत् । अथाक्रमात् क्रमिणामनुत्पत्ते मिति चेत् ; एकानंश- 10 कारणात् युगपदनेककारणसाध्यानेककार्यविरोधात् क्षणिकानामप्यक्रमेण कार्यकारित्वं मा भूदिति पर्यायैकान्तादपि क्रमाक्रमयोापकयोनिवृत्त्यैव व्याप्याऽर्थक्रियापि व्यावर्तते । तब्यावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिबलेनैव निवर्तत इत्यसन् पर्यायैकान्तोऽपि ।
६१२९. काणादास्तु द्रव्यपर्यायाधुभावप्युपागमन् पृथिव्यादीनि गुणाद्याधाररूपाणि द्रव्याणि, गुणादयस्त्वाधेयत्वात्पर्यायाः। ते च केचित् क्षणिकाः, केचिद्याव;व्य- 15 भाविनः, केचिभित्या इति केवलमितरेतरविनि ठितधर्मिधर्माभ्युपगमान्न समीचीनविषयवादिनः । तथाहि-यदि द्रव्यादत्यन्तविलक्षणं सत्त्वं तदा द्रव्यमसदेव भवेत् । सत्तायोगात् सत्त्वमस्त्येवेति चेत् ; असतां सत्तायोगेऽपि कुतः सत्त्वम् ?, सतां तु निष्फलः सत्तायोगः । स्वरूपसत्वं भावानामस्त्येवेति चेत् । तर्हि किं शिखण्डिना सत्तायोगेन। सत्तायोगात् प्राक् भावो न सन्नाप्यसन्, सत्तासम्बन्धातु सन्निति चेत् वामात्रमेतत्, सदस- 20 द्विलक्षणस्य प्रकारान्तरस्यासम्भवात् । अपि च 'पदार्थः सत्ता योगः' इति न त्रितयं चकास्ति । पदार्थसत्तयोश्च योगो यदि तादात्म्यम् , तदनभ्युपगमबाधितम् । अत एव न संयोगः, समवायस्त्वनाश्रित इति सर्व सर्वेण सम्बध्नीयान वा किश्चित् केनचित् । एवं द्रव्यगुणकर्मणां द्रव्यत्वादिभिः, द्रव्यस्य द्रव्यगुणकर्मसामान्यविशेषैः, पृथिव्यप्तेजोवायूनां पृथिवीत्वादिमिः, आकाशादीनां च द्रव्याणां स्वगुणैयोगे यथायोगं 25 सर्वमभिधानीयम् , एकान्तभिन्नानां केनचित् कथञ्चित् सम्बन्धायोगात् इत्यौलूक्यपक्षेऽपि विषयव्यवस्था दुःस्था ।
१-०ता तवा०-डे० । २ बीजपूरादौ। ३ युगपदेकान्-ता० । ४ नित्यस्यैकरूपस्यापि क्रमेणेत्यादिको प्रन्यो न घटते। ५ न हि एकांश उपादानस्वरूपोऽन्यश्च सहकारिस्वरूपो भवन्मतेऽस्ति । ६-०मेणाकारि. -डे । ७-०वुभावप्यभ्युपा०-डे.1बुद्धयादयः । घटरूपादयः। १० आप्यरूप्या(पादयः । जलादिपरमाणुरूपादीनां नित्यत्वात् ] । ११ -०मिन्नः । १२ पदार्थस० -डे । १३ अनभ्युपगमबाधितत्वात् एव । २४ संयोगो हि द्रव्ययोरेव । १५ आदेर्गुणत्वकर्मस्वे । १६ केनचित् सम्ब०-ता० मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org