________________
२६
आचार्य श्री हेमचन्द्रविरचिता
[अ० १, आ० १ सू० ३२. कार्यमेव सहकारिष्वसत्स्वभवत् तानपेक्षत इति चेत्; तत्किं स भावोऽसमर्थः १ । समर्थचेत्; किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते न पुनर्झटिति घटयति ? । ननु समर्थमपि बीजमिलाजेलादिसहकारिसहितमेवाङ्कुरं करोति नान्यथा; तत् किं तस्य सहकारिभिः किश्चिदुपक्रियेत, न वा १ | नो चेत्; स किं पूर्ववनोदास्ते । उपक्रियेत चेत् ; स तर्हि तैरुपकारो 5 भिन्नोऽभिन्नो वा क्रियत इति निर्वचनीयम् । अभेदे स एव क्रियते इति लाभमिच्छतो मूलक्षतिरायाता । भेदे स कथं तस्योपकारः ?, किं न सह्यविन्ध्यादेरपि । तत्सम्बन्धात्तस्यायमिति चेत्; उपकार्योपकारयोः कः सम्बन्धः । न संयोगः द्रव्ययोरेव तस्य भावात् । नापि समवायस्तस्य प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियत - म्बन्धिसम्बन्धत्वंयुक्तम्, तत्वे वा तत्कृत उपकारोऽभ्युपगन्तव्यः तथा च सत्यु10 पकारस्य भेदाभेदकल्पना तदवस्थैव । उपकारस्य समवायादभेदे समवाय एव कृतः स्यात् । भेदे पुनरपि समवायस्य न नियतसम्बन्धिसम्बन्धत्वम् । नियँतसम्बन्धिसम्ब न्धत्वे समवायस्य विशेषणविशेष्यभावो हेतुरिति चेत्; उपकार्योपकारकभावाभावे तस्यापि प्रतिनियमहेतुत्वाभावात् । उपकारे तु पुनर्भेदाभेदविकल्पद्वारेण तदेवावर्तते । तन्नैकान्तनित्यो भावः क्रमेणार्थक्रियां कुरुते ।
15
20
25
$ १२५. नाप्यक्रमेण । न ह्येको भावः सकलकालर्कलाभाविनीर्युगपत् सर्वाः क्रियाः करोतीति प्रातीतिकम् | कुरुतां वा, तथापि द्वितीयक्षणे किं कुर्यात् ? । करणे वा क्रमपक्षभींवी दोषः । अकरणेऽनर्थक्रियाकारित्वादवस्तु त्वप्रसङ्गः - इत्येकान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुपलब्धिबलात् व्यापक निवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्तयति तदेपि स्वव्याप्यं सत्त्वमित्यसन् द्रव्यैकान्तः ।
$ १२६. पर्यायैकान्तरूपोऽपि प्रतिक्षणविनाशी भावो न क्रमेणार्थक्रियासमर्थो देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् । अवस्थितस्यैव हि नानादेशकालव्याप्तिर्देशक्रमः कालक्रमश्चाभिधीयते । न चैकान्तविनाशिनि सास्ति । यदाहु:
“यो यत्रैव स तत्रैव यो यदैव तदैव सः । न देशकालयोर्व्याप्तिर्भावानामिह विद्यते ॥ "
$१२७, न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्याऽवस्तुत्वात् । वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः । अथाक्षणिकत्वम् ; सुस्थितः पर्यायैकान्तवादः ! यदाहु:
१ कार्याणि । २ बीजमिलादि ० - डे० । ३ क्रियेत इति डे० । ४-० न्ध्याद्रेर० - डे० । ५ नियतसम्बन्धिकृतः । ६ समवायस्य । ७० -त्वम् सम्बन्धत्वे - डे० । ८ नियत सम्बन्धिनोबीजोपकारयोः सम्बन्धत्वेऽनयोः समवाय इति विशेषणविशेष्यभावः । ६ कलाशब्देनांशाः । १० स हि कालान्तरभाविनीः क्रिया इत्यादिको ग्रन्थ आवर्तनीयः । ११ तदप्यर्थक्रियाकारित्वं व्यापकं निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयति । १२ कर्तरि षष्ठी । १३ पर्यायैकान्तवादे । १४ - ० त्वं न सु० - डे० । १९५ यदुक्तम्-डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org