________________
प्रमेयस्य निरूपणम् । ]
• पूर्वोत्तरविवर्त्तवर्त्त्यन्वयप्रत्ययसमधिगम्यमूर्ध्वतासामान्यमिति यावत् । परियन्त्युत्पादविनाशधर्माणो भवन्तीति पर्याया विवर्त्ताः । तच्च ते चात्मा स्वरूपं यस्य तत् द्रव्यपर्यायात्मकं वस्तु, परमार्थसदित्यर्थः, यद्वाचकमुख्यः - " उत्पादव्ययधौव्ययुक्तं सद्” [ तत्त्वां० ५.२९ ] इति, पारमर्षमपि " उपन्नेइ वा विगमेइ वा धुवेइ वा" इति ।
प्रमाणमीमांसा ।
$११९. तत्र 'द्रव्यपर्याय' ग्रहणेन द्रव्यैकान्तपर्यायैकान्तवादिपरिकल्पितविषयव्यु - 5 दासः । 'आत्म' ग्रहणेन चात्यन्तव्यतिरिक्तद्रव्यपर्यायवादिकाणादयोगाभ्युपगतविषयनिरासः । यच्छ्रीसिद्धसेनः
"दोहिं वि नएहिं नीयं सत्थमुलूएण तहवि मिच्छन्तं ।
जं सविसय पहाणत्तणेण अनोश्ननिर विक्ख” ॥ [ सन्म० ३. ४९ ] ति ॥३०॥ १२०. कुतः पुनर्द्रव्यपर्यायात्मकमेव वस्तु प्रमाणानां विषयो न द्रव्यमात्रं पर्याय- 10 मात्रमुभयं वा स्वतन्त्रम् ? इत्याह
२५
अर्थक्रियासामर्थ्यात् ॥ ३१ ॥
$१२१, ‘अर्थस्य’ हानोपादानादिलक्षणस्य 'क्रिया' निष्पत्तिस्तत्र 'सामर्थ्यात् ', द्रव्य - पर्यायात्मकस्यैव वस्तुनोऽर्थक्रियासमैर्थत्वादित्यर्थः ॥ ३१ ॥
१२२. यदि नामैवं ततः किमित्याह
15
तल्लक्षणत्वास्तुनः ॥ ३२ ॥
$ १२३. ‘तद्' अर्थक्रियासामर्थ्य 'लक्षणम्' असाधारणं रूपं यस्य तत् तल्लक्षणं तस्य भावस्तत्रं तस्मात् । कस्य ? । 'वस्तुनः' परमार्थसतो रूपस्य । अयमर्थः - अर्थक्रियार्थी हि सर्वः प्रमाणमन्वेषते, अपि नामेतः प्रमेयमर्थक्रियाक्षमं विनिश्चित्य कृतार्थो भवेयमिति न व्यसनितया । तद्यदि प्रमाण विषयोऽर्थोऽर्थक्रियाक्षमो न भवेत्तदा नासौ प्रमाणपरीक्षण - 20 माद्रियेत । यदाह
"अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनाम् ।
षण्ढस्य रूपवैरूपये कामिन्याः किं परीक्षया ? ।। " [ प्रमाणवा० १.२१५ ] इति ।
$ १२४. तत्र न द्रव्यैकरूपोऽर्थोऽर्थक्रियाकारी, स प्रच्युतानुत्पन्नस्थिरैकरूपः कथमर्थक्रियां कुर्वीत क्रमेणाक्रमेण वा १, अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् । तत्र 25 न क्रमेण; स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य कालक्षेपायोगात्, कालक्षेपिणो वाऽसामर्थ्यप्राप्तेः । समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमर्थ करोतीति चेत्; न तर्हि तस्य सामर्थ्यमपरसहकारिसापेक्षवृत्तित्वात्, “सापेक्षमसमर्थम्” [पात० महा० ३.१ ८] इति हि किं नाश्रौषीः १ । न तेन सहकारिणोऽपेक्ष्यन्तेऽपि तु
Jain Education International
१ धौव्याणां योगः । २ अन्ननिर० - मु० । अणुण्णनिर० - डे० । ३ निरपेक्षौ नयौ । ४ एकत्रिंशत्तमं द्वात्रिंशत्तमं च सूत्रद्वयं सं-मू० प्रतौ मेदकचिह्नं बिना सहैव लिखितं दृश्यते - सम्पा० । ५० क्रियार्थसम० - डे० । - ० त्वाद्वा वस्तुनः-सं-मू० । ७ प्रमाणान्वेषणभावनायाम् । ८ यदाहुः ता० । ९ सामर्थ्यं पर०-ता ।
For Private & Personal Use Only
www.jainelibrary.org