________________
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० १, सू० ३०-३२. इति; तथापि प्रयोगसम्यक्त्वस्यातीन्द्रियत्वेन प्रत्यक्षानवगम्यत्वात्कार्यतोऽवगतिर्वक्तव्या। कार्य च ज्ञानम् न च तदविशेषितमेव प्रयोगसम्यक्त्वावगमनायालम् । न च तद्विशेषणपरमपरमिह पदमस्ति । संतां सम्प्रयोगइति च वरं निरालम्बनविज्ञाननिवृत्तये, 'सति'इति तु सप्तम्यैव गतार्थत्वादनर्थकम् ।
६११३. येऽपि "तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षं यविषयं ज्ञानं तेनं सम्प्रयोगे इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षं यदन्यविषयंज्ञानमन्यसम्प्रयोगे भवति न तत्प्रत्यक्षम् ।” [ शाबरभा० १.१.५ ] इत्येवं तत्सतोर्व्यत्ययेन लक्षणमनवद्यमित्याहुः, तेषामपि क्लिष्टकल्पनैव, संशयज्ञानेन व्यभि
चारानिवृत्तेः । तत्र हि यद्विषयं ज्ञानं तेन सम्प्रयोग इन्द्रियाणामस्त्येव । यद्यपि चोभ10 यविषयं संशयज्ञानं तथापि तयोरन्यतरेणेन्द्रियं संयुक्तमेव उभयावमर्शित्वाच्च संशयस्य
येन संयुक्तं चक्षुस्तद्विषयमपि तज्ज्ञानं भवत्येवेति नातिव्याप्तिपरिहारः । अव्याप्तिश्च चाक्षुषज्ञानस्येन्द्रियसम्प्रयोगजत्वाभावात् । अप्राप्यकारि च चक्षुरित्युक्तप्रायम् ।
६११४. "श्रोत्रादिवृत्तिरविकाल्पका प्रत्यक्षम्" इति वृद्धसाङ्ख्याः । अत्र श्रोत्रादीनामचेतनत्वात्तवृत्तेः सुतरामचैतन्यमिति कथं प्रमाणत्वम् । चेतनसंसर्गात्तच्चैत15 न्याभ्युपगमे वरं चित एव प्रामाण्यमभ्युपगन्तुं युक्तम् । न चाविकल्पैकत्वे प्रामाण्यमस्तीति यत्किञ्चिदेतत् ।
६११५. "प्रतिविषयाध्यवसायो दृष्टेम्" [साका०५] इति प्रत्यक्षलक्षणमितीश्वरकृष्णः । तदप्यनुमानेन व्यभिचारित्वादलक्षणम् । अथ 'प्रतिः' आभिमुख्ये वर्तते तेनाभि
मुख्येन विषयाध्यवसायः प्रत्यक्षमित्युच्यते; तदुप्यनुमानेन तुल्यम् घटोऽयमितिवदयं 20 पर्वतोऽग्निमानित्याभिमुख्येन प्रतीतेः । अथ अनुमानादिविलक्षणो अभिमुखोऽध्यवसायः प्रत्यक्षम् । तर्हि प्रत्यक्षलक्षणमकरणीयमेव शब्दानुमानलक्षणविलक्षणतयैव तत्सिद्धेः ।
$११६. ततश्च परकीयलक्षणानां दुष्टत्वादिदमेव 'विशदः प्रत्यक्षम्' इति प्रत्यक्षलक्षणमनवद्यम् ॥ २९ ॥
६११७. प्रमाणविषयफलप्रमातृरूपेषु चतुर्पु विधिषु तत्त्वं परिसमाप्यत इति विषया25 दिलक्षणमन्तरेण प्रमाणलक्षणमसम्पूर्णमिति विषयं लक्षयति
प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥ ३०॥ ६ ११८. प्रत्यक्षस्य प्रकृतत्वात्तस्यैव विषयादौ लक्षयितव्ये 'प्रमाणस्य' इति प्रमाणसामान्यग्रहणं प्रत्यक्षवत् प्रमाणान्तराणामपि विषयादिलक्षणमिहैव वक्तुं युक्तमविशेषात्तथा च लाघवमपि भवतीत्येवमर्थम् । जातिनिर्देशाच्च प्रमाणानां प्रत्यक्षादीनां 'विषयः' गोचरो 'द्रव्यपर्यायात्मकं वस्तु' । द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं ध्रौव्यलक्षणम् ।
१ सता सम्प्र-ता० डे० । २ तेनैव सम्प्र० -मु-पा०। ३ तत्सर्वतोव्य०-डे० । ४-०कल्पत्वे-डे । ५ दृष्टमति प्रत्य०-ता० । ६ विधेषु इत्यपि पठितुं शक्यं ता० प्रतौ । ७-०मर्थजाति०-३० । ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org