________________
प्रत्यक्षीय लक्षणान्तरनिरास: । ]
प्रमाणमीमांसा |
२३
च्छित्तौ साधकतमा भवन्ति व्यभिचारात् ?, सत्यपीन्द्रियार्थसन्निकर्षेऽर्थोपलब्धेरभावात् । ज्ञाने सत्येव भावात् साधकतमं हि करणमव्यवहितफलं च तदिति ।
,
$१०९. सन्निकर्षोऽपि यदि योग्यतातिरिक्तः संयोगादिसम्बन्धस्तर्हि स चक्षुषोऽर्थेन सह नास्ति अप्राप्यकारित्वात्तस्य । दृश्यते हि काचा स्फटिकादिव्यवहितस्याप्यर्थस्य चक्षुषोपलब्धिः । अथ प्राप्यकारि चक्षुः करणत्वाद्वास्यादिवदिति ब्रूषे; तर्ह्ययस्कान्ता- 5 कर्षणोपलेन लोहासन्निकृष्टेन व्यभिचारः । न च संयुक्तसंयोगादिः सन्निकर्षस्तत्र कल्पयितुं शक्यते, अतिप्रसङ्गादिति ।
$११०. सौगतास्तु " प्रत्यक्षं कल्पनापोढमभ्रान्तम् " [ न्यायवि० १.४ ] इति लक्षणमवोचन् । “अभिलापसंसर्गयोग्य प्रतिभासा प्रतीतिः कल्पना तथा रहितम्”–[ न्यायबि० १.५,६] कल्पनापोढम् इति । एतच्च व्यवहारानुपयोगित्वात्प्रमाणस्य 10 लक्षणमनुपपन्नम्, तथाहि एतस्माद्विनिश्चित्यार्थमर्थक्रियार्थिनस्तत्समर्थेऽर्थे प्रवर्तमाना विसंवादभाजो मा भूवन्निति प्रमाणस्य लक्षणपरीक्षायां प्रवर्तन्ते परीक्षकाः । व्यवहारानुपयोगिनश्च तस्य वायसंसदसद्दशन परीक्षायामित्र निष्फलः परिश्रमः । निर्विकल्पोत्तरकाल भाविनः सविकल्पकात्तु व्यहारोपगमे वरं तस्यैव प्रामाण्यमास्थेयम्, किमविकल्पकेन शिखण्डिनेति ? |
१११. जैमिनीयास्तु धर्मं प्रति अनिमित्तत्वव्याजेन "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्” [ जैमि० १.१.४] इत्यनुवादभङ्गया प्रत्यक्षलक्षणमाचक्षते, यदाहु:
"एवं सत्यनुवादित्वं लक्षणस्यापि सम्भवेत् ।” [लोकवा ० सू० ४.३९] इति । व्याचक्षते च - इन्द्रियाणां सम्प्रयोगे सति पुरुषस्य जायमाना बुद्धिः प्रत्यक्षमिति । 20 $११२. अत्र संशयविपर्ययबुद्धिजन्मनोऽपीन्द्रियसंप्रयोगे सति प्रत्यक्षत्वप्रसङ्गादतिव्याप्तिः । अथ 'सत्सम्प्रयोग' इति सता सम्प्रयोग इति व्याख्यायते तर्हि निरालम्बनविभ्रमा एवार्थनिरपेक्षजन्मानो निरस्ता भवेयुर्न सालम्बनौ संशयविपर्ययौ । अथ स सम्प्रयोग इति सत्सप्तमी पक्ष एव न त्यज्यते संशयविपर्ययनिरासाय च 'सम्प्रयोग' इत्यत्र 'सम्' इत्युपसर्गो वर्ण्यते, यदाह
" सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः । दुष्टस्वाच्छुक्तिकायोगो वार्यते रजतेक्षणात्" [श्लोकवा०सू० ४. ३८–९]
१ काचाभ्रपटलस्फ०-डे० । २ - ० स्यार्थस्य - डे० । ३ – ०न्निकर्षेण व्य० - ता० । ४ - ० गादिसन्नि० - डे० । ५ रहितम् तथापोढम् - डे० । रहितम् तयापोढम् - मु० । ६ वायससदसन (वाय सदशन) परी० - ता० ।
७ एतत्समानम् - काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् । गर्दभे कति रोमाणीत्येषा मूर्खविचारणा ॥ -मु-टि०
८ शिखण्डिन्-स्वयंवरे वृतेन भीष्मेणापाकृता काचिदम्बानाम्नी राजकन्या तपसा पुरुषत्वं प्राप्ता । सैब शिखण्डीति सम्शया व्यवजहे । स च स्त्रीपूर्वत्वान्निन्दास्पदम् । ततो भारते युद्धे तं पुरस्कृत्यार्जुनो भीष्मं जघान । सोऽपि च शिखण्डी पश्वादश्वत्थाम्ना हृतः । मु-टि० । ९ - वादत्वं मु० । १० - ० संयोगे - डे० ।
Jain Education International
15
For Private & Personal Use Only
25
www.jainelibrary.org