________________
२२
आचार्यश्रीहेमचन्द्रविरचिता [अ० १, आ० १, सू०२९.
स्मृतिहेतुर्धारणा ॥ २९॥ ६१०३. 'स्मृतेः' अतीतानुसन्धानरूपाया 'हेतुः' परिणामिकारणम्, संस्कार इति यावत्, सङ्खयेयमसङ्खयेयं वा कालं ज्ञानस्यावस्थानं 'धारणा' । अवग्रहादयस्तु त्रय
आन्तमौहूर्तिकाः । 5 १०४. संस्कारस्य च प्रत्यक्षभेदरूपत्वात् ज्ञानत्वमुन्नेयम् , न पुनर्यथाहुः परे
"ज्ञानादतिरिक्तो भावनाख्योऽयं संस्कारः" इति । अस्य ह्यज्ञानरूपत्वे ज्ञानरूपस्मृतिजनकत्वं न स्यात् , नहि सत्ता सत्तान्तरमनुविशति । अज्ञानरूपत्वे चास्यात्मधर्मत्वं न स्यात् , चेतनधर्मस्याचेतनत्वाभावात् ।
६१०५. नन्वविच्युतिमपि धारणामन्वशिषन् वृद्धाः, यद्भाष्यकारः-"अविचुई 10 धारणा होई” [विशेषा० गा० १८०] तत्कथं स्मृतिहेतोरेव धारणात्वमसूत्रयः । सत्यम् ,
अस्त्यविच्युति म धारणा, किन्तु साऽवाय एवान्तर्भूतेति न पृथगुक्ता । अवाय एव हि दीर्घदीर्घोऽविच्युतिर्धारणेत्युच्यत इति । स्मृतिहेतुत्वाद्वाऽविच्युतिर्धारणयैव सङ्गृहीता । न ह्यवायमात्रादविच्युतिरहितात् स्मृतिर्भवति, गच्छत्तृणस्पर्शप्रायाणामवायानां परि
शीलनविकलानां स्मृतिजनकत्वादर्शनात् । तस्मात् स्मृतिहेतू अविच्युतिसंस्कारावनेनस15. गृहीतावित्यदोषः। यद्यपि स्मृतिरपि धारणाभेदत्वेन सिद्धान्तेऽमिहिता तथापि परोक्ष____ प्रमाणभेदत्वादिह नोक्तेति सर्वमवदातम् ।
१०६. इह च क्रमभाविनामप्यवग्रहादीनां कथञ्चिदेकत्वमवसेयम् । विरुद्धधर्माध्यासो ह्येकत्वप्रतिपत्तिपरिपन्थी । न चाऽसौ प्रमाणप्रतिपन्नेऽर्थे प्रत्यर्थितां भजते । अनु
भूयते हि खलु हर्षविषादादिविरुद्धविवर्ताक्रान्तमेकं चैतन्यम् । विरुद्धधर्माध्यासाच विभ्य20 द्भिरपि कथमेकं चित्रपैंटी ज्ञानमेकानेकाकारोल्लेखशेखरमभ्युपगम्यते सौगतैः, चित्रं वा रूपं नैयायिकादिभिरिति ।
१०७ नैयायिकास्तु-"इन्द्रियार्थसान्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्" [न्या० ११. ४. ] इति प्रत्यक्षलक्षणमाचक्षते । अत्र
च पूर्वाचार्यकृतव्याख्यावैमुख्येन सङ्ख्यावद्भिस्त्रिलोचनवाचस्पतिप्रमुखैरयमर्थः समर्थि25, तो यथा-इन्द्रियार्थसन्निकर्षोत्पनं ज्ञानमव्यभिचारि प्रत्यक्षमित्येवे प्रत्यक्षलक्षणम् । 'यतः'
शब्दाध्याहारेण च यत्तदोनित्याभिसम्बन्धादुक्तविशेषणविशिष्टं ज्ञानं यतो भवति तत् तथाविधज्ञानसाधनं ज्ञानरूपमज्ञानरूपं वा प्रत्यक्षं प्रमाणमिति । अस्य च फलभूतस्य ज्ञानस्य द्वयी गतिरविकल्पं सविकल्पं च । तयोरुभयोरपि प्रमाणरूपत्वमभिधातुं विभा
गवचनमेतद् 'अव्यपदेश्य व्यवसायात्मकम्' इति । 80, १०८. तत्रोभयरूपस्यापि ज्ञानस्य प्रामाण्यमुपेक्ष्य 'यतः'शब्दाध्याहारक्लेशेनाऽज्ञानरूपस्य सन्निकर्षादेः प्रामाण्यसमर्थनमयुक्तम् । कथं ह्यज्ञानरूपाः सभिकर्षादयोऽर्थपरि
१ वैशेषिकाः। २धारणा तस्स-विशेषा०। ३-०दविच्युतिविर०-डे०। ४-०रीयं ज्ञान०-डे । ५-०त्येवं प्र०-डे। ६-०ल्पकं स०-डे । ७-०ल्पकं वा । तयो० -डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org