________________
सांव्यवहारिकप्रत्यक्षम् । ] प्रमाणमीमांसा।
६९६. 'अवग्रहेहावायधारणात्मा' इत्युक्तमित्यवग्रहादील्लँक्षयति- अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः ॥ २६ ॥
९७. 'अक्षम्' इन्द्रियं द्रव्यभावरूपम् , 'अर्थः' द्रव्यपर्यायात्मा तयोः 'योगः' सम्बन्धोऽनतिदूरासन्नव्यवहितदेशाद्यवस्थानलक्षणा योग्यता । नियता हि सा विषयविषयिणोः, यदाह,
"पुढें सुणेइ सदं रूवं पुण पासए अपुढं तु ॥" [ आव• नि० ५] इत्यादि । तस्मिनक्षार्थयोगे सति 'दर्शनम्' अनुल्लिखितविशेषस्य वस्तुनः प्रतिपत्तिः । तदनन्तरमिति क्रमप्रतिपादनार्थमेतत् । एतेन दर्शनस्यावग्रहं प्रति परिणामितोक्ता, नासत एव सर्वथा कस्यचिदुत्पादः, सतो वा सर्वथा विनाश इति दर्शनमेवोत्तरं परिणाम प्रतिपद्यते । 'अर्थस्य' द्रव्यपर्यायात्मनोऽर्थक्रियाक्षमस्य 'ग्रहणम्', 'सम्यगर्थनिर्णयः' इति 10 सामान्यलक्षणानुवृत्तेनिर्णयो न पुनरविकल्पकं दर्शनमात्रम् 'अवग्रहः ।
६९८. न चायं मानसो विकल्पः, चक्षुरादिसन्निधानापेक्षत्वात्. प्रतिसङ्ख्यानेनाप्रत्याख्येयत्वाच्च । मानसो हि विकल्पः प्रतिसङ्ख्यानेन निरुध्यते, न चायं तथेति न विकल्पः ॥ २६॥
अवगृहीतविशेषाकाङ्क्षणमीहा ॥ २७ ॥ - ६९९. अवग्रहगृहीतस्य शब्दादेरर्थस्य 'किमयं शब्दः शाङ्खः शाङ्गो वा' इति संशये सति 'माधुर्यादयः शाङ्खधर्मा एवोपलभ्यन्ते न कार्कश्यादयः शार्ङ्गधर्माः' इत्यन्वयव्यतिरेकरूपविशेषपर्यालोचनरूपा मतेश्चेष्टा 'इहा' । इह चावग्रहेहयोरन्तराले अभ्यस्तेऽपि विषये संशयज्ञानमस्त्येव आशुभावात्तु नोपलक्ष्यते । न तु प्रमाणम्, सम्यगर्थनिर्णयात्मक त्वाभावात् ।
20 $१००. ननु परोक्षप्रमाणभेदरूपमूहाख्यं प्रमाणं वक्ष्यते तत्कस्तस्मादीहाया भेदः । उच्यते-त्रिकालगोचरःसाध्यसाधनयोाप्तिग्रहणपटुरूहो यमाश्रित्य "व्याप्तिग्रहणकाले योगीव सम्पद्यते प्रमाता" इति न्यायविदो वदन्ति । ईहा तु वार्त्तमानिकार्थविषया प्रत्यक्षप्रभेद इत्यपौनरुक्त्यम् । . १०१. ईहा च यद्यपि चेष्टोच्यते तथापि चेतनस्य सेति ज्ञानरूपैवेति युक्तं प्रत्यक्ष- 25 भेदत्वमस्याः। न चानिर्णयरूपत्वादप्रमाणत्वमस्याः शङ्कनीयम्; स्वविषयनिर्णयरूपत्वात् , निर्णयान्तरासादृश्ये निर्णयान्तराणामप्यनिर्णयत्वप्रसङ्गः ॥२७॥
ईहितविशेषनिर्णयोऽवायः ॥ २८॥ ६१०२. ईहाक्रोडीकृते वस्तुनि विशेषस्य 'शाल एवायं शब्दो न शार्ङ्गः' इत्येवंरूप- ... स्यावधारणम् 'अवायः ॥२८॥
१पारिणामिककारणतोक्ता-डे । २ बौद्धानामिव । ३ अनिराकार्यत्वात् । ४ विरुद्धार्थचिन्तनेन ।
- 30
५-०विशेषका०-डे ।
शङ्क०-डे । ७स्वविषये निर्णयत्वात-डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org