________________
६२
आचार्यश्रीहेमचन्द्रविरचिता [अ० २, आ० १, सू० २९-३०. धर्मनित्यानित्यत्वविकल्पेन शब्दनित्यत्वापादनं नित्यसमा जातिः । यथा अनित्यः शब्द इति प्रतिज्ञाते जातिवादी विकल्पयति-येयमनित्यता शब्दस्योच्यते सा किमनित्या नित्या वेति । यद्यनित्या; तदियमवश्यमपायिनीत्यनित्यताया अपायानित्यः शब्दः ।
अथानित्यता नित्यैव ; तथापि धर्मस्य नित्यत्वात्तस्य च निराश्रयस्यानुपपत्तेस्तदाश्रय5 भूतः शब्दोऽपि नित्यो भवेत् , तदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथापि नित्यः
शब्द इति २२ । सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमा जातिः। यथा घटेन साधर्म्यमनित्येन शब्दस्यास्तीति तस्यानित्यत्वं यदि प्रतिपाद्यते, तद् घटेन सर्वपदार्था
नामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्यात् । अथ पदार्थान्तराणां तथा- भावेऽपि नानित्यत्वम् ; तर्हि शब्दस्यापि तन्मा भूदिति । अनित्यत्वमात्रापादनपूर्वकविशे10 षोद्भावनाचाविशेषसमातो भिनेयं जातिः २३ । प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं
कार्यसमा जातिः। यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याहप्रयत्नस्य द्वैरूप्यं दृष्टम्-किश्चिदसदेव तेन जन्यते यथा घटादि, किश्चित्सदेवावरणव्युदासादिनाभिव्यज्यते यथा मृदन्तरितमूलकीलादि, एवं प्रयत्नकार्यनानात्वादेष प्रयत्नेन
शब्दो व्यज्यते जन्यते वेति संशय इति । संशयापादनप्रकारभेदाच्च संशयसमातः कार्य15 समा जातिर्भिद्यते २४ ।
६६५. तदेवमुद्भावनविषयविकल्पभेदेन जातीनामानन्त्येऽप्यसङ्कीर्णोदाहरणविवक्षया चतुर्विंशतिर्जातिभेदा एते दर्शिताः । प्रतिसमाधानं तु सर्वजातीनामन्यथानुपपतिलक्षणानुमानलक्षणपरीक्षणमेव । न ह्यविप्लुतलक्षणे हेतावेवंप्रायाः पांशुपाताः
प्रभवन्ति । कृतकत्वप्रयत्नानन्तरीयकत्वयोश्च दृढप्रतिबन्धत्वान्नावरणादिकृतं शब्दानुपल20 म्भनमपि त्वनित्यत्वकृतमेव । जातिप्रयोगे च परेण कृते सम्यगुत्तरमेव वक्तव्यं न . प्रतीपं जात्युत्तरैरेव प्रत्यवस्थेयमासमञ्जस्य प्रसङ्गादिति ।
६६. छलमपि च सम्यगुत्तरत्वाभावाजात्युत्तरमेवे । उक्तं ह्येतदुद्भावनप्रकारभेदेनानन्तानि जात्युत्तराणीति । तत्र परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघात
श्छलम् । तत्रिधा वाक्छलं सामान्यच्छलमुपचारच्छलं चेति । तत्र साधारणे शब्दे प्रयुक्ते 25 वक्तुरभिप्रेतादर्थादर्थान्तरकल्पनया तनिषेधो वाक्छलम् । यथा नवकम्बलोऽयं माण
वक इति नूतनविवक्षया कथिते परः सङ्ख्यामारोप्य निषेधति-कुतोऽस्य नव कम्बला इति । सम्भावनयातिप्रसङ्गिनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तनिषेधः सामान्यच्छलम् । यथा अहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्न इति ब्राह्मणस्तुतिप्रसङ्गे
कश्चिद्वदति-सम्भवति ब्राह्मणे विद्याचरणसम्पदिति । तत् छलवादी ब्राह्मणत्वस्य हेतुता30 मारोप्य निराकुर्वन्नभियुङ्क्ते-यदि ब्राह्मणे विद्याचरणसम्पद् भवति, व्रात्येऽपि सा भवेत्
१-० त्यैव न तथा० -डे० । २ विनश्वरस्वभावायामनित्यतायां नित्यानित्यत्वविकल्पना न घटत एव अन्यथा कृतकत्वस्याऽपि कृतकत्वं पृच्छ्यताम् । ३ जैन प्रति(?)साध्यता नैयायिक प्रत्यनित्यत्वस्य शब्दकृतकत्वेन व्याप्तिदृष्टा व्यभिचारात्(?)।४-०क्षणहेतुपरी०-डे ०।५- मेव च । - डे०। ६-प्रेतादर्थान्तर-डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org