________________
वादस्य निरूपणम् । ]
प्रमाणमीमांसा |
arvisपि ब्राह्मण एवेति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानमुपचारच्छलम् । यथा मञ्चाः क्रोशन्तीति उक्ते परः प्रत्यवतिष्ठते - कथमचेतनाः मञ्चाः क्रोशन्ति मञ्चस्थास्तु पुरुषाः क्रोशन्तीति । तदत्र छलत्रयेऽपि वृद्धव्यवहारप्रसिद्ध शब्दसामर्थ्य - परीक्षणमेव समाधानं वेदितव्यमिति ॥ २९ ॥
९ ६७. साधनदूषणाद्यभिधानं च प्रायो वादे भवतीति वादस्य लक्षणमाहतत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनदूषणवदनं वादः ॥ ३० ॥
"स्व समयपर समयज्ञाः कुलजाः पक्षद्वयेप्सिताः क्षमिणः । वादपथेष्वभियुक्तास्तुलासमाः प्राश्निकाः प्रोक्ताः ॥ "
§ ६८, स्वपक्षसिद्धये वादिनः 'साधनम्' तत्प्रतिषेधाय प्रतिवादिनो 'दूषणम् ' । प्रतिवादिनोऽपि स्वपक्षसिद्धये 'साधनम्' तत्प्रतिषेधाय वादिनो 'दूषणम्' । तदेवं वादिनः साधनदूषणे प्रतिवादिनोऽपि साधनदूषणे द्वयोर्वादिप्रतिवादिभ्याम् 'वदनम्' अभिधानम् 10 'वाद:' । कथमित्याह - 'प्राश्निकादिसमक्षम् ' । प्राश्निकाः सभ्याः
६३
5
इत्येवंलक्षणाः । 'आदि' ग्रहणेन सभापतिवादिप्रतिवादिपरिग्रहः, सेयं चतुरङ्गा कथा, एकस्याप्यङ्गस्य वैकल्ये कथात्वानुपपत्तेः । नहि वर्णाश्रमपालनक्षम न्यायान्यायव्य - 15 वस्थापकं पक्षपातरहितत्वेन समदृष्टि सभापतिं यथोक्तलक्षणांश्च प्राश्विकान् विना वादिप्रतिवादिनौ स्वाभिमतसाधनदूषणसरणिमाराधयितुं क्षमौ । नापि दुःशिक्षितकुतर्कलेशवाचालबालिशजनविप्लावितो गतानुगतिको जनः सन्मार्ग प्रतिपद्येतेति । तस्य फलमाह - 'तत्वसंरक्षणार्थम् ' । ' तत्व' शब्देन तत्त्वनिश्चयः साधुजनहृदयविपरिवर्ती गृह्यते, तस्य रक्षणं दुर्विदग्धजनजनितविकल्पकल्पनात इति ।
Jain Education International
For Private & Personal Use Only
代
§ ६९. ननु तत्त्वरक्षणं जल्पस्य वितण्डाया वा प्रयोजनम् । यदाह - " तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोह संरक्षणाथ कण्टकशाखापरिचरणवत्" [ न्यायसू० ४ ०.५० ] इति न वादस्यापि निग्रहस्थानवत्वेन तत्त्वसंरक्षणार्थत्वात् । न चास्य निग्रहस्थानवत्त्वमसिद्धम् । “प्रमाणतर्कसाधनो-, पालम्भः सिद्धान्तांविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः " 25 [ न्यायसू० १. २. १ ] इति वादलक्षणे सिद्धान्ताविरुद्ध इत्यनेनापसिद्धान्तस्य, पञ्चावयवोपपन्न इत्यनेन न्यूनाधिकयोर्हेत्वाभासपश्चकस्य चेत्यष्टानां निग्रहस्थानानामनुज्ञानात् तेषां च निग्रहस्थानान्तरोपलक्षणत्वात् । अत एव न जल्पवितण्डे कथे, वादस्यैव तत्त्वसंरक्षणार्थत्वात् ।
1 ....९ ७०, ननु " यथोक्तोपपन्नच्छलजातिनिग्रहस्थान साधनो पालम्भो जल्पः " 30
१ - ० षणे तयोर्वा - ०० । २ इत्येवंत्वल० - ० ।
20
www.jainelibrary.org