SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ६४ आचार्यश्रीहेमचन्द्रविरचिता [अ० २ ० १ सू० ३१-३४० [-न्या० १. २. २ ], “स प्रतिपक्षस्थापनाहीनो वितण्डा " [न्या०] १. २. २] इति लक्ष भेदजल्पवितण्डे अपि कथे विद्येते एव; न; प्रतिपक्षस्थापनाहीनाया वितण्डायाः कथात्वायोगात् । वैतैण्डिको हि स्वपक्षमभ्युपगम्यास्थापयन् यत्किंचिद्वादेन परपक्षमेव दूषयन् कथमवधेयवचनः १ | जल्पस्तु यद्यपि द्वयोरपि वादिप्रतिवादिनोः साधनो5 पालम्भसम्भावनया कथात्वं लभते तथापि न वादादर्थान्तरम्, वादेनैव चरितार्थत्वात् । छलजातिनिग्रहस्थानभूयस्त्वयोगादचरितार्थ इति चेत् ; न, छलजातिप्रयोगस्य दूषणाभासत्वेनाप्रयोज्यत्वात्, निग्रहस्थानानां च वादेप्यविरुद्धत्वात् । न खलु खर्टचपेटामुखबन्धादयोऽनुचिता निग्रहा जल्पेऽप्युपयुज्यन्ते । उचितानां च निग्रहस्थानानां वादेऽपि न विरोधोऽस्ति । तन्न वादात् जल्पस्य कश्चिद् विशेषोऽस्ति । लाभपूजा10 ख्यातिकामितादीनि तु प्रयोजनानि तत्वाध्यवसाय संरक्षणलक्षणप्रधानफलानुबन्धीनि पुरुषधर्मत्वाद्वादेऽपि न निवारयितुं पार्यन्ते । 15 ९७१. ननु छलजातिप्रयोगोऽसदुत्तरत्वाद्वादे न भवति, जल्पे तु तस्यानुज्ञानादस्ति वादजल्पयोर्विशेषः । यदाह 25 नैवम् । असदुत्तरैः परप्रतिक्षेपस्य कर्तुमयुक्तत्वात् ; न ह्यन्यायेन जयं यशो धनं वा महात्मानः समीहन्ते । अथ प्रबलप्रतिवादिदर्शनात् तर्जये धर्मध्वंससम्भावनात्, 20 प्रतिभाक्षयेण सम्यगुत्तरस्याप्रतिभासादसदुत्तरैरपि पांशुभिरिवा वकिरनेकान्तपराजयाद्वरं सन्देह इति धिया न दोषमावहतीति चेत्; न, अस्यापवादिकस्य जात्युत्तरप्रयोगस्य कथान्तरसमर्थनसामर्थ्याभावात् । वाद एव द्रव्यक्षेत्रकालभावानुसारेण यद्यसदुत्तरं कथंचन प्रयुञ्जीत किमेतावता कथान्तरं प्रसज्येत ? । तस्माज्जल्पवितण्डानिराकरणेन वाद एवैकः कथाप्रथां लभत इति स्थितम् ॥ ३० ॥ $ ७२. वादश्च जयपराजयावसानो भवतीति जयपराजययोर्लक्षणमाहस्वपक्षस्य सिद्धिर्जयः ॥ ३१ ॥ "दुः शिक्षित कुतर्कांशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाटोपपण्डिताः ॥ गतानुगतिको लोकः कुमार्गे तत्प्रतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः" ॥ इति । ९ ७३. वादिनः प्रतिवादिनो वा या स्वपक्षस्य सिद्धिः सा जयः । सा च स्वपक्षसाधनदोषपरिहारेण परपक्षसाधनदोषोद्भावनेन च भवति । स्वपक्षे साधनमब्रुवन्नपि प्रति १-०हीना वि०- डे० । २ " प्रयोनम् " ( हैमश० ६. ४. ११७ ) इतीकण् । ३ • कोऽपि स्व० - ता० । ४ प्रत्यपि । ५ यच तत् किञ्चिश्च तस्य वादः । ६ तृणविशेष० । ७ अनुसारीणि ८ छलादीन् विना । & तस्य प्रतिवादिनो जये । १० चेत् अस्या० - ता० । ११ परिहारोद्भावनाभ्यां समस्ताभ्यां न व्यस्ताभ्याम् इति चार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy