________________
निमहस्थानस्य निरूपणम् । ] प्रमाणमीमांसा । वादी वादिसाधनस्य विरुद्धतासुद्भावयन् वादिनं जयति, विरुद्धतोद्भावनेनैव स्वपक्षे साधनस्योक्तत्वात् । यदाह-"विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः" इति ॥३१॥ ..
असिद्धिः पराजयः ॥ ३२ ॥ ७४. वादिनः प्रतिवादिनो वा या स्वपक्षस्य 'असिद्धिः सा 'पराजयः' । सा च । साधनाभासाभिधानात् , सम्यक्साधनेऽपि वा परोक्तदूषणानुद्धरणाद्भवति ॥ ३२ ॥ 5 . ६ ७५. ननु यद्यसिद्धिः पराजयः, स तर्हि कीदृशो निग्रहः ?, निग्रहान्ता हि कथा भवतीत्याह
स निग्रहो वादिप्रतिवादिनीः ॥ ३३॥ ___ ७६. 'स' पराजय एव 'वादिप्रतिवादिनोः' 'निग्रहः' न वधबन्धादिः । अथवा
स एव स्वपक्षासिद्धिरूँपः पराजयो निग्रहहेतुत्वानिग्रहो नान्यो यथाहुः परे-"विप्रति- 10 .. पत्तिरप्रतिपत्तिश्च निग्रहस्थानम्" [न्यायसू. १. २. १९] इति ॥ ३३ ॥
... F७७. तत्राह. . न विप्रतिपत्त्यप्रतिपत्तिमात्रम् ॥ ३४ ॥
७८. विपरीता कुत्सिता विगर्हणीया प्रतिपत्तिः 'विप्रतिपत्ति-साधनाभासे साधनबुद्धिषणाभासे च दूषणबुद्धिः। अप्रतिपत्तिस्त्वारम्भविषयेऽनारम्भः। स च साधने 15 दुषणं दूषणे चोद्धरणं तयोरकरणम् 'अप्रतिपत्तिः। द्विधा हि वादी पराजीयते-यथाकर्तव्यमप्रतिपद्यमानो विपरीतं वा प्रतिपर्धमान इति । विप्रतिपत्त्यप्रतिपत्ती एव 'विप्रतिपत्त्यप्रतिपत्तिमात्रम्' 'न' पराजयहेतुः किन्तु स्वपक्षस्यासिद्धिरेवेति । विप्रतिपत्त्यप्रतिपत्त्योश्च । निग्रहस्थानत्वनिरासात् तद्भेदानामपि निग्रहस्थानत्वं निरस्तम् ।
७९. ते च द्वाविंशतिर्भवन्ति। तद्यथा-१ प्रतिज्ञाहानिः, २ प्रतिज्ञान्तरम्, 20 ३ प्रतिज्ञाविरोधः, ४ प्रतिज्ञासंन्यासः, ५ हेत्वन्तरम् , ६ अर्थान्तरम् , ७ निरर्थकम् , ८ अविज्ञातार्थम् , ९ अपार्थकम् , १० अप्राप्तकालम्, ११ न्यूनम् , १२ अधिकम् , १३ पुनरुक्तम् , १४ अननुभाषणम् , १५ अज्ञानम् , १६ अप्रतिभा, १७ विक्षेपः, १८ मतानुज्ञा, १९ पर्यनुयोज्योपेक्षणम् , २० निरनुयोज्यानुयोगः, २१ अपसिद्धान्तः, २२ हेत्वाभासाश्चेति । अत्राननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणमित्य- 25 प्रतिपत्तिप्रकाराः । शेषा विप्रतिपत्तिभेदाः।
६८०. तत्र प्रतिज्ञाहानेर्लक्षणम्-"प्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञा
१ विरुद्धहे.. - डेः । २ त्रयस्त्रिंशत्तमं चतुस्त्रिंशत्तमं च सूत्रद्वयं सहैव लिखितं सं-मू. प्रतौ। ३-०न्धादि । अ० - डे० । ४ - ० रूपप • - डे० । ५ देशताडनादि । ६ परो - डे० । ७ आरभमाणः । ८ प्रतिदृष्टान्तस्य सामान्यस्य धर्मो नित्यत्वम् । 8-धर्माभ्यनुज्ञा-मु०।..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org