________________
६६
आचार्यश्री हेमचन्द्रविरचिता
[अ० २, आ० १ सू० ३४. हानिः” [न्यायसू० ५. २. २.] इति सूत्रम् । अस्य भाष्यकारीयं व्याख्यानम् - "साध्यधर्मप्रत्यनीकेन धर्मेण प्रत्यवस्थितः प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । यथा अनित्यः शब्दः ऐन्द्रियकत्वाद् घटवदित्युक्ते परः प्रत्यवतिष्ठते - सामान्य मैन्द्रियकं नित्यं दृष्टं कस्मान्न तथा शब्दोऽपीत्येवं 5 स्वप्रयुक्तहेतोरा भासतामवस्यन्नपि कथावसानमकृत्वा प्रतिज्ञात्यागं करोतियद्यैन्द्रियकं सामान्यं नित्यम्, कामं घटोऽपि नित्योऽस्त्विति । स खल्वयं साधनस्य दृष्टान्तस्य नित्यस्वं प्रसजन् निगमनान्तमेव पक्षं जहाति । पक्षं च परित्यजन् प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात् पक्षस्येति"[ न्यायभा० ५. २. २ ] । तदेतदसङ्गतमेव, साक्षाद् दृष्टान्तहानिरूपत्वात् तस्याः तत्रैवं धर्म10 परित्यागात् । परम्परया तु हेतूपनयनिगमनानामपि त्यागः, दृष्टान्तसाधुत्वे तेषाम
साधुत्वात् । तथा च प्रतिज्ञाहानिरेवेत्यसङ्गतमेव । वार्त्तिककारस्तु व्याचष्टे - "हष्टश्वासान्ते स्थितत्वादन्तश्चेति हैष्टान्तः पक्षः । स्वदृष्टान्तः स्वपक्षः । प्रतिदृष्टान्तः प्रतिपक्षः । प्रतिपक्षस्य धर्म स्वपक्षेऽभ्यनुजानन् प्रतिज्ञां जहातियदि सामान्य मैन्द्रियकम् नित्यं शब्दोऽप्येवमस्त्विति” [ न्यायवा०५. २, २ ] । 15 तदेतदपि व्याख्यानमसङ्गतम्, इत्थमेव प्रतिज्ञाहानेरवधारयितुमशक्यत्वात् । न खलु प्रतिपक्षस्य धर्म स्वपक्षेऽभ्यनुजानत एव प्रतिज्ञात्यागो येनायमेक एव प्रकारः प्रतिज्ञाहानौं स्यात्, अधिक्षेपादिभिराकुलीभावात् प्रकृत्या सभाभीरुत्वादन्यमनस्कत्वादेर्वा निमित्ता[त्] किञ्चित् साध्यत्वेन प्रतिज्ञाय तद्विपरीतं प्रतिजानानस्याप्युपलम्भात् पुरुषभ्रान्तेरनेककीरणकत्वोपपत्तेरिति १ ।
20
८१. प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयममिदधतः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति । अनित्यः शब्दः ऐन्द्रियकत्वादित्युक्ते तथैव सामान्येन व्यभिचारे नोदिते यदि ब्रूयात् - युक्तं सामान्यमैन्द्रियकं नित्यं तद्धि
१ वात्स्यायनम् । २ वात्स्यायनभाष्ये तु — " साध्यधर्म प्रत्यनीकेन धर्मेण प्रत्यवस्थिते प्रतिदृष्टान्तधर्मं स्वदृष्टान्तेऽभ्यनुजानन्प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । निदर्शनम् - ऐन्द्रियकत्वादनित्यः शब्दो घटवदिति कृतेऽपर आह दृष्टमैन्द्रियकत्वं सामान्ये नित्ये कस्मान्न तथा शब्द इति प्रत्यवस्थिते इदमाह - यद्यैन्द्रियकं सामान्यं नित्यं कामं घटो नित्योस्त्विति । स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनान्तमेव पक्षं जहाति । पक्षं जहत्प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति । " - न्यायभा० ५. २. २ मु-टि० । ३ प्रतिवादिना पर्यनुयोजितः । ४ वादी । ५ – ०युक्तस्य हेतो ० - डे० । ६ अनैकान्तिकत्वेन । ७ प्रसञ्जन - ०डे० । प्रसज्जयन् - मु० । ८ अभ्युपगतं पक्षम् । तस्याः प्रतिज्ञाहानेः । १० दृष्टान्ते । ११ - ० न्तसाधुत्वे ० - ता० । १२ न्यायवार्तिके तु- "दृष्टश्चासावन्ते व्यवस्थित इति दृष्टान्तः स्वश्वासौ दृष्टान्तश्चेति स्वदृष्टान्तशब्देन पक्ष एवाभिधीयते । प्रतिदृष्टान्तशब्देन च प्रतिपक्षः प्रतिपक्षश्चासौ दृष्टान्तश्चेति । एतदुक्तं भवति । परपक्षस्य यो धर्मस्तं स्वपक्ष एवानुजानातीति यथा अनित्यः शब्दः ऐन्द्रियकत्वादिति द्वितीयपक्षवादिनि सामान्येन प्रत्यवस्थिते इदमाह-यदि सामान्यमैन्द्रियकं नित्यं दृष्टमिति शब्दोऽप्येवं भवत्विति ।" - न्यायवा० ५. २. २- मु-टि० । १३ अन्तो निगमनम् तत्र च स्थितः एकः पक्षः प्रतिज्ञायाः पुनर्वचनम् । १४ दृष्टान्तः स पक्षः प्रतिदृष्टान्तः - डे० । १५ निमित्तत्वात् - डे० । १६ कारणत्वो० - डे० ।
Jain Education International
-0
For Private & Personal Use Only
www.jainelibrary.org