________________
मङ्गलवादः।
यत् पुनरुक्तम्' साङ्गे तस्मिन्ननुष्ठितेऽपि कार्यानुदयः, श्रौतस्य साङ्गस्य कर्मणः फलोत्पत्तिनियमादिति तदपि मन्दम् । कचिद् विघ्नस्यैव प्रचुरत्वादैन्तरा विघ्नान्तरोत्पत्तेर्वा । विघ्नरहितदशायां कृतस्य नमस्कारस्य यद्यपि द्वारस्यान्यथासिद्धत्वात् तद्वयक्तौ कारणता नास्ति तथापि व्यक्त्यन्तरं प्रति जन्मान्तरे तस्मिन्नेव वा जन्मनि जनता भविष्यतीति को विरोधः ? न हि व्यक्यपेक्षया श्रुतिः कारणतां बोधयति किन्तु तज्जातीयापेक्षया । अत एव कचिन्नमस्कारादशेनेऽपि अभीष्टसिद्धिरुदेति ।
न च श्रौतस्य साङ्गस्य कर्मणः फलोत्पादनियमः । फलमदत्त्वाऽपि कीर्तनादिना तद्विनाशावधारणात् । नमस्कारत्वं तु यद्यपि कायिकादौ नानुगतमुपलभ्यते तथापि ज्ञानविशेषपूर्वकत्वमप्रतिसन्धाय न कायिकादौ नमस्कारत्वव्यपदेश इति । नागृहीतविशेषणन्यायेन ज्ञानविशेष एव नमस्कारत्वम् । स च विशेषो व्यवहारसाक्षिको जातिभेद एव । ननु साक्षात्कारत्वादिना परापरभावानुपपत्त्या कथमेतत् सङ्गच्छते । कथं वा न तथाभूतप्रमारूपासाधारणफलकरणस्य प्रमाणान्तरत्वम्" । कुतो वाऽसाधारणप्रयोजकप्रमाणविरहे तथाभूतासाधारणानुभवफलसिद्धिरिति । मैवं, "साक्षात्कारविशेषस्यैव मानसस्य तथात्वात् । तथापि किंविषयकोऽसावाराधकात्मविषय एव आराधनीयविषयको वा । न च प्रमाणान्तरापत्तिः" । मनस एव तत्करणत्वात्"। न च मनसो बहिरस्वातन्त्र्यम् । आत्मविशेषगुणोपग्रहेण बहिरपि तस्य साक्षात्कारिज्ञाने प्रवृत्तिदर्शनादित्यन्यत्र विस्तरः। गुणगंतजातौ परापरभावानुपपत्तिरेव नास्तीत्यन्ये । __यद्वा कायिकादिषु त्रिषु"नमस्कारशब्दो नानार्थः। तदन्यतमत्वमेव" वा* नमस्कारत्वम् । एवं विघ्नोत्सारणाऽसाधारणकारणत्वे सति साध्यत्वमेव
" १. P adds कथ here. २. Mg drops साङ्गस्य। ३. P reads प्रचुरतरत्वाद् । ४. P substitutes विरह instead of रहित । ५. P reads तद्वारस्य। ६ M. Pn reed कारणता । ७. M, reads पूर्वकम्। ८. P and Ma have जातिविशेष एव । ९. P reads कारणस्य । १०. P-Ma reads प्रमाणान्तरतापत्तिः, ११. P has तथाविध । १२. P adds चेत् । १३. M reads मैदम् । ११. Pn has तथाभतत्वात् । १५. P प्रमाणान्तरतात्तिः । १६. P तत्कारणत्वा ११. M. rad; उपग्रहणेन । १८. M, drops गत । १९. MI drops त्रिषु । २०. P. adds एव । २१. P+Mg read एतदन्यतमत्वमेव । २२. Mi drops वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org