Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 246
________________ अन्यथाण्यातिवादटिप्पनम् । अत्राशङ्कते प्राभाकरः-न चेति (९५-२४) । यदि रजतभेद ग्रहस्थले रजतत्वप्रकारके ज्ञाने विद्यमानेऽपि प्रवृत्तिर्न जायते इति तत्र प्रवृत्तिः स्यादित्यतिप्रसङ्गवारणार्थ भेदाग्रह एव कारणान्तरं वक्तव्यम् । न तु प्रवृत्तिसमानविशेष्यकत्वमित्यर्थः । तद्वारणार्थमिति (९५-२४) । अतिप्रसङ्गवारणार्थमित्यर्थः । अग्रह इति (९५-२४)। अग्रहो भेदाग्रहः ।। समाधत्ते-अन्तरङ्गेति (९५-२४) । रजतज्ञानकारणतायां विषये एव कारणतावच्छेदकत्वेनान्तरङ्गः, न तु रजतत्वप्रकारकज्ञाने अविषयरूपः भेदाग्रहः कारणान्तरम् । विषयरूपं प्रवृत्तिविशेष्यविशेष्यकत्वलक्षणं प्रवृत्तिसमानविषयत्वं तदेव कारणतावच्छेदकमुचितमित्यर्थः । न तु भेदाग्रहः कारणं प्रवृत्ति प्रति । प्रामाकरः अत्राशङ्कते-न चेति (९५-२५) मेदाग्रहे सति प्रवृत्तिस्तुभयवादिसिद्धा एवं सति प्रवृत्ति प्रति नियतपूर्ववर्तिनि भेदाग्रह एव अन्यथासिद्धत्वं कल्प्यते । न तु अन्यथाख्यातिरूपे विशिष्टज्ञाने तस्याऽन्यथाख्यातिरूपविशिष्टज्ञानस्य प्रवृत्ति प्रति उभयवादिसिद्धत्वाभावात् । समाधत्ते नैयायिकः-न होति(९५-२७) । न हि उभयवादिसिद्धत्वं कारणतायां प्रयोजकं किन्तु लाघवाख्यतर्कसहकृतं प्रमाणं कारणत्वनियामकम् । एवं सति रजतत्वप्रकारकज्ञाने कारणतावच्छेदकं किं प्रवृत्तिसमानविशेष्यत्वं वक्तव्यं किं वा भेदा. ग्रहो वा कारणान्तरं वक्तव्यम् । तत्र रजत्वप्रकारकज्ञानस्य प्रवृत्तिसमानविशेष्यकत्वेन कारणत्वे एका कारणता आयाति । भेदाग्रहस्य तु कारणत्वे रजतत्वप्रकारकज्ञानमपि कारणम् भेदाग्रहोऽपि कारणम् इति कारणताद्वयमिति गौरवम् । इदमेव प्रभाकरमतमनूध नैयायिकः खण्डयांत-न चेति (९६-१) । लाघवाख्यतर्कसहकृतं प्रमाणं भेदामहमेव कारणत्वेन विषयीकरोत्येवं तु न हि । कुतः ? इत्यत आह-गौरवेति (९६-१)। रजतत्वप्रकारकज्ञानस्य प्रवृत्तिसमानविशेष्यकरजतत्वप्रकारज्ञानत्वेन कारणत्वे एका कारणता, भेद ग्रहकारणतायां कारणद्वयकल्पना इति गौरवमित्यर्थः । ___ मत्राशङ्कते-नै चेति (९६-३) । विशिष्टज्ञानसामग्रो विशेष्येन्द्रिय सन्निकर्षः विशेषणज्ञानं तदुभयासंसर्गाग्रहो विशेषणसन्निकर्षश्च । यथा दण्डी पुरुष इत्यत्र पुरुषेण विशेष्येण सहेन्द्रियसन्निकर्षः दण्डस्य विशेषणस्य ज्ञानम् पुरुषे विशेष्ये दण्डस्य विशेषणस्यासंसर्गाग्रहः दण्डाभावज्ञानाभावः एवं हि दण्डविशिष्टज्ञानसामग्रो । सा सामग्री सर्वत्र भ्रमे नास्ति । कुतो नास्ति, यतो विशेष्यासन्निकर्षेऽपि बहिः १. प्रवृत्तिसमानेत्यादिकः । २. प्राभाकरः । २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270