Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 260
________________ २२३ अर्थापत्तिवादटिप्पनम् । नुपपत्या विशेषतर्कसह कृतया विशेषसिद्धिः फलमस्मन्मतेऽपि समानम् । विशकलितं नाम केवलं बहिःसत्त्वं तेन विना गृहासत्त्वमात्रं चेदनुपपन्नं, तदा देवदत्तगृहासत्त्वमपि देवदत्तबहिःसत्त्वेन विनाऽनुपपन्नं स्यादिति विशेषतर्कसहकारात् विशिष्टावगमो नाम देवदत्तबहिःसत्त्वावगमः । स चार्थापत्तेरेव फलमित्यर्थः । उदाहरणान्तरेऽप्यर्थापत्ति प्रमाणयति-एवमिति (९९-१४)। तथा च सामान्यतो दिवाभोजित्वे सति पोनत्वान्यथानुपपत्त्या विशेषतर्कसहकृतया देवदत्तरात्रिभोजनासद्धिः । अत्र देवदत्तरात्रिभोजनेऽर्थापत्तिरेव प्रमाणं न त्वनुमानमित्याहरात्रिभोजनं त्विति (९९-१६) । देवदतरात्रिभोजनमित्यर्थः । देवदत्तरात्रिभोजनरूपस्य साध्यस्याप्रसिद्धौ नानुमानावतारः । मतान्तरमाह-भोजन विति (९९-१७)। अत्र मते दिवाऽभोजनपीनत्वयोर्यद् विरोधिज्ञानं तदेव रात्रिभोजनप्रमापकत्वादापत्तिपदवाच्यमित्यर्थः । विरोधप्रतिसन्धानमेव विवृणोति-पुष्टीति (९९-१७) । पुष्टिकारणत्वेन भोजनमवगतम् । अयं तु दिवाऽभोजी । तथा च भोजनाभावपीनत्वयोरेकस्मिन् धर्मिणि यो विरोधः स किञ्चिद् विषयं विना न विश्राम्यति, स विषयः कः ? समयान्तरे रात्रौ यद्भोजनं तेन विना स विरोधो न विश्राम्यति । एवं सति अर्थापत्तिफलमाह-फलमिति (९९-१८)। सामान्यप्रवृत्तं प्रमाण भोजनं पुष्टिकारणं, विशेषप्रवृत्तं प्रमाणमयं दिवाऽभोजी, अनयोभिन्नविषयतया अविरोधबुद्धिः, दिवाऽभोजनरात्रिभोजनयोर्विरोध एव नास्ति । तथा चाविरोधबुधिरेवार्थापत्तिफलमित्यर्थः । अत्र मते केषाञ्चिदूषणमुपन्यस्यति-अत्रेति (९९२०) । तथा च भिन्नविषयतयाऽविरोधबुद्धिः विरुद्धधर्माध्या सस्यैव फलं न त्वर्थापत्तः फलमित्यर्थः । अनयोरिति (९९-२०) । सामान्यप्रमाणविशेषप्रमाणयोरित्यर्थः । अत्राशङ्कते-न चेति (९९-२१)। यदि विरुद्धधर्माध्यासः स्यात्तदा विरुद्धधर्माध्यासस्य फलं भिन्नविषयत्वसिद्धिः स्यात् । स च विरुद्धधर्माध्यासोऽसिद्ध एवेत्यर्थः । विरुद्धधर्माध्यासासिद्धिं दूषयति-अस्तीति (९९-२१)! पुष्टिकारणतया भोजनमस्ति, दिवा तु भोजनं नास्तीति अस्तित्वनास्तित्वलक्षणो विरोधोऽनुभवसाक्षिक एव । अथवा शतवर्षी जीवी देवदत्त इति जीवनग्राहकं प्रमाण ज्योतिःशास्त्रं गृहनियमग्राहक प्रमाणं प्रत्यक्षम् । पश्चाद्गृहाभावदर्शनेन तयोर्जीवनग्राहकप्रत्यक्षयोर्यद् विरोधप्रतिसन्धानं स एव विरुद्धधर्माध्यासः । स बहिःसत्त्वेन विनाऽनुपपन्नः स एव बहिःसत्त्वप्रमापकोऽस्तु । किमर्थापत्त्या । १. सामान्यप्रवृत्तप्रमाणविशेषप्रवृत्तप्रमाणयोः । २. निश्चयः । ३. विरुद्धधर्माभ्यासः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270