Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 247
________________ न्यायसिद्धान्तदीपे पदार्थविशेष्यक मानसभ्रमः शीतो वायुरित्यादौ स्वीकृतः । न हि वायुना विशेष्येण सह मानसः सन्निकर्षोऽस्ति । तथा च सर्वत्र भ्रमे विशिष्टज्ञानसामग्री नास्तीति कृत्वा विशिष्टज्ञानात्मको भ्रमो न सम्भवत्येव । विशेष्येति ( ९६- ३ ) । भ्रमे विशेष्यं यत् तस्यासन्निकर्षः । बहिरिति (९६ - ३ ) । शीतो वायुरित्यादिको बहिर्विशेष्यको भ्रम इत्यर्थः । कारणवाधादिति (९६- ३) विशेष्येन्द्रियसन्निकर्षरूपकारण बाधादित्यर्थः । तद्बाध ( ९६ - ४ ) इति भ्रमरूपविशिष्टज्ञानबाध इत्यर्थः । समाधत्ते - ज्ञानान्तरेति (९६ - ४) । तथा च ज्ञानान्तरोपनीते बहिः पदार्थे तद्विशेषणकं बहिः पदार्थविशेषणकं अन्तःपदार्थविशेष्यकं यथा विशिष्टज्ञानं जायते । एवं ज्ञानान्तरोपनीते बहिः पदार्थे तद्विशेष्यकं यथा मानसं ज्ञानं जायते, तद्वत् ज्ञानान्तरोपनीतबहिःपदार्थविशेष्यकं मानसमपि भ्रमरूपं ज्ञानं भविष्यति । यथा ज्ञानान्तरोपनीतें घटे घटविशेषणकं घटज्ञानवानहमिति मानसं ज्ञानं जायते एवं ज्ञातो घट इति ज्ञानं ज्ञानान्तरोपनीत इह बहिः पदार्थों घटस्तद्विशेष्यकमपि मानसं ज्ञानं भवति । ज्ञातो घट इति बहिः पदार्थविशेष्यकं मानसं परित्यज्य ज्ञातः परमाणु(९६-४) रित्युदाहरणम् । तत्सर्वथेन्द्रियासन्निकृष्टविशेष्यमित्यभिप्रायेण । एवं सति उपनीते बहिःपदार्थे सति बहिः पदार्थविशेषणकं बहिः पदार्थविशेष्यकं वा मानसं ज्ञानं प्रमारूपं जायते । एवम उपनीते बहिःपदार्थे बहिर्विशेषणकं बहिः पदार्थविशेष्यकं वा मानसं भ्रमरूपमपि ज्ञानं भविष्यति । उपनयविशेषसामग्रय विशेषात् । एतदेवाह - कार्यदर्शनस्येति (९६ - ५ ) । यथा कार्यं बहिः पदार्थविशेषणकं बहिः पदार्थविशेष्यकं वा मानसं ज्ञानं उपनयेवशात् तुल्यमेव । ननु ज्ञानान्तरोपनीतं चेन्मान से बोधे बहिः पदार्थविशेष्य के भासते तदा महानसादौ वह्निज्ञानोपनीतो यो वह्निः स बहिः पदार्थों यः पर्वतादिस्तद्विशेष्य के मानसे बोधे भासताम् । तथा च पर्वतो वह्निमानिति मानसमेव ज्ञानं स्यान्न तु अनुमितिरूपमित्याशङ्कते - न चेति (९६ - ६) | समाधत्ते - अत्रेति (९६ - ६ ) । तृतीयलिङ्गपरामस्थले येन विशेषेणानुमित्युच्छेदो न भवति तादृशविशेषस्योक्तत्वात् । २१० इष्टभेदाग्रहस्याप्रवर्त्तकत्वमुक्त्वा अनिष्टभेदाग्रहस्य निवर्तकत्वमपि नास्तीत्याह-न चेति (९६-७) यथा स्वतन्त्रोपस्थितेष्टभेदाग्रहः प्रवर्त्तको न भवति एवं स्वातन्त्र्योपस्थितानिष्टभेदाग्रहो निवर्त्तकोऽपि न भवतीत्यर्थः । विपक्षे बाधकमाह - परस्परेति (९६ - ७) । इयं शुक्तिर्न रजतम् इदं शुक्तौ ज्ञानम् । रजते इदं रजतं न शुक्तिरिति समूहालम्बनज्ञानात् शुक्तो रजतार्थी न निवर्त्तेत रजते वा न प्रवर्त्तेत । कुतः ? १. पूर्वज्ञानात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270